पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
38
आयुर्वेदसूत्रे

तस्य तन्निवर्तनमेव पुरुषार्थः । तत्कफहेतुकमित्युच्यते । तिक्तोषणकषायरसाः कफनिवर्तकाः । रसादिषट्कस्य दोषनिवर्तकत्वम् । रसादिषु स्वाद्वम्लरसौ वातपित्तप्रकोपहेतू भवतः । तयोरेव हि र्षेष्यत् कफकारका इति । स च स्वादुरस औपाधिकरसोऽम्लरस उभावपि पचनपित्तप्रकोपकारकौ । प्रत्युत पवनप्रकोपस्यापि हेतू भवतः । कथं कफनिवर्तकौ भवतः इत्यस्वरसादाह-- हृदिति ।

 हृच्च्युताहारमनलशोषितमामाशयस्थं कफं हरति ॥ ७१ ॥

 प्राशिताहारमनलशोषितमामाशस्थं कफं हरति । तदेवान्नं प्राशितं यथाक्रममाशयादिषु स्थित्वा सारकिट्टादिविभजनं कुर्वत् यदन्नं पचति आमाशयस्थं सत् तदेव कटुरसो भवति । तत्र सूत्रवचनं--

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।[१]

एतद्वचनानुसारेण स्वभावतस्स्वादुरसोऽपि औपाधिकाम्लरसो भूत्वा पित्तमपि जनयति । तदनन्तरं अम्लरसस्य कार्यकारित्वं वक्तव्यम् । आमाशयस्थितस्सन् कटुरसो भूत्वा कफनिवर्तको भवतीत्यर्थः । कटुरसस्य च कफनिवर्तकत्वं सुप्रसिद्धमिति भावः ।

उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः ।
स्रावयत्याक्षिनासास्यं कपोलौ दहतीव च ॥[२]

 ननु एकमेव द्रव्यं त्रिधा विभजनं करोतीति सूत्रे प्रतिपादितमित्युक्तम्, तच्चिन्त्यम् । आदौ स्वादुरसस्यैव कार्यका

  1. अष्टाङ्ग सूत्रं I--17.
  2. अष्टाङ्ग सूत्रं X--5.