पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
37
प्रथमप्रश्नः

 हृद्गतकफप्लुतान्नमम्लीभूतं पित्तप्रकोपनाशकम् ॥ ६९ ॥

 अस्यार्थः-- आमाशयस्य पवनप्रकोपहेतुत्वं प्रतिपादितम् । पित्तप्रकोपस्याजीर्णोत्पत्तिकारणत्वं वक्तुं शक्यत्वात्, तत्कार्यस्य च हेतोरदृष्टत्वात् इत्यस्वरसं मनसि निधाय कैश्चिद्व्याख्यानं क्रियत इत्यस्वरसान्तरमाह-- हृदिति ।

 अस्यार्थः-- मधुरीभूतार्थान् भुक्तवतः उदानानिलेन कण्ठं प्रविशत्तत् हृद्गतं सत् कफप्लुतं संसर्गदोषवशात् अम्लीभूतं भवति । स रसः पित्तप्रकोपं करोति । अत्र सूत्रं--

आम्लोऽग्निदीप्तिकृत्स्निग्धः हृद्यः पाचनरोचनः ।
उष्णवीर्यो हिमस्पर्शः प्रीणनो भेदनो लघुः ।
करोति कफपित्तास्रं मूढवातानुलोमनम्[१]

एतद्वचनानुसारेण पित्तप्रकोपहेतोरदर्शनात् पित्तनिवर्तकः स्वादुरसः पित्तप्रकोपं हरतीत्यर्थः । तत्र सूत्रवचनं--

"तक्राद्या मारुतं घ्नन्ति" इति प्रतिपादितम् ।

एतद्वचनानुसारेण स्वादुरसस्य पित्तप्रकोपराहित्यजनकत्वं प्रतिपादितम् । एतत्सूत्रवचनद्वयस्यार्थस्सुबोध इत्यर्थः ।

 ननु दोषप्रकोपनिवर्तनद्वारा धातून्पुष्णन्तौ स्वाद्वम्लरसौ पवनप्रकोपं कुरुतः । तस्मात्तन्निवर्तको न भवेदित्यस्वरसाद्दाह-- मधुरेति ।

 मधुराम्लरसौ कफकरौ ॥ ७० ॥

 मधुररसश्चाम्लरसश्चोभयमपि कफप्रकोपं दत्ते । मधुररसः पवनपित्तनिवर्तकरसः तत्तद्द्रव्यं भूत्वाऽन्तः प्रविशति ।

  1. अष्टाङ्गं सूत्रं X-- 10-11.