स्वादुरसवद्द्रव्यमद्यात्प्रथमतः अश्नीयादित्यर्थः । तद्वदन्त्यमधुरीभूतद्रव्यमनिलप्रकोपहारकमित्यर्थः । तत्र
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।[१] |
एतद्वचनानुसारेण पाके मधुरीभूतद्रव्यं दोषनिवर्तकम्, उत स्वतस्स्थितस्वादुरसवद्द्रव्यं वा । नाद्यः, सकलद्रव्याणि पाके त्रिधा विकारीकरोति । तन्निवर्तकद्रव्यमस्तीति नियामकाभावात् । नान्त्यः, स्वादुरसवद्द्रव्यं सकलदोषान्हरतीति । तत्र वचनं--
तक्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् । |
एतद्वचनानुसारेण एकस्येव नियामकत्वं भवतीति अवच्छेदकत्वाभावात् । तस्मादेतदैक्यमिति तन्न । मधुरीभूतव्यञ्जनैस्साकं प्रथमतोऽन्नमश्नुयात् । तत् हृद्गतमम्लीभूतं भवेत् । तदा हृदयं प्रविश्य ततः पक्वाशयगतं भवेत् । ततः कटुरसो भूत्वा पच्यते । तस्मान्मधुरीभूतद्रव्यं........ भवति, तद्वत्पवनप्रकोपमपहरतीति मत्वा तस्मादेतत्सूत्रं सार्थकमित्यर्थः । आमाशयरिक्तत्वमेव पवनप्रकोपहेतुकं, पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् । अहरहर्भुक्तान्नं पच्यमानं सत् दोषत्रयनिवर्तकत्वेन धातुना पोषयतीति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् अहरहर्भुक्तान्नं पच्यमानं सत् दोषत्रयनिवर्तनं करोतीति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च तद्धेतोरदृष्टत्वात् । कार्यज्ञानस्य कारणज्ञानेन विनाऽप्रसक्तेरित्यस्वरसादाह-- हृद्गतेति ।