पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
27
प्रथमप्रश्नः

सूत्रार्थेऽरुचिर्न प्रतिपादितव्या । पवनपित्तज्वरः, पवनश्लेष्मज्वरः, पित्तश्लेष्मज्वर इति द्वन्द्वजानि त्रीणि भासन्ते । तथा सति आगन्तुकाभिघातज्वर इति ज्वरस्याष्टरूपत्वं चैवमाकरेण सुबोधितमित्यर्थः । निदाने वातपित्तप्रधानद्वन्द्वज्वरस्य तल्लक्षणप्रतीतेः अभावात् । किन्तु पवनकफज्वर एकः, श्लेष्मपित्तज्वरः, आगन्तुकाभिघातज्वर इत्यष्टधा ज्वरभेदः प्रतिपादितः । आयुर्वेदे पवनपित्तज्वरो द्वन्द्व इति प्रतिपादितः । परब्रह्मणा प्रतिपादितार्थस्सामान्यज्वरः, त्रिदोषोत्थिता ज्वरास्त्रयः, त्रिदोषद्वन्द्वजास्त्रयः, इत्यष्टरूपो भवति ज्वर इत्यायुर्वेदवचनतात्पर्यम् । पवनभूतद्रव्यस्य इतरधातुभ्यां साकं योगग्रहणस्य औपयोगिकत्वात् ।

................पवनस्तदितरयोः प्रभुः ।
विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात् ।
"स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥"[१]

 तस्मात् द्वन्द्वजानि त्रिरूपाणि भवन्तीत्यर्थः । तत्रापि पवनस्य द्वाभ्यां साकं द्विरूपदानं युक्तमित्यर्थः । कफपित्तयोः लघुत्वात्तादृशबलं नास्तीस्यर्थः । तत्र वचनं--

सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वा क्रमात् ।
वातपित्तकफैस्सप्त दश द्वादश वासरान् ।
प्रायाऽनुयाति मर्यादां मोक्षाय च वधाय च ॥[२]

 इति वचनानुसारेण सामान्यतो द्वन्द्वजास्त्रयश्च, आगन्तुकेन साकमष्टप्रकारो भवतीति तात्पर्यम् । सामान्यज्वरस्य यावदजीर्णाभावकालस्य तत्तद्विमोचनहेतुकत्वात् । एकैकधातुप्राधान्यं सप्त

  1. अष्टाङ्गनिदानं I-11.
  2. अष्टाङ्गनिदानं II-- 60-61.