पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
26
आयुर्वेदसूत्रे

रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥
प्रसेकारोचकाश्रद्धा विपाकाः स्वेदजागराः ।
कण्ठोष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता ॥
हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोः ग्रहः ।
भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे ॥[१]

 पवनपित्ते अङ्गपीडनं सर्वाङ्गेषु प्रपीडनम् । मलमार्गातिरोधनं सर्वमलद्वाराणां वायुपूरितत्वान्मलमूत्रादिकार्यकारणं दुश्शकं च भवतीत्यर्थः । धातुचरमार्गविगमनं विरुद्धगमनं रोगहेतुकम् । अनिलादनिलस्थलचलनं जठरानलस्थलचलनं भवति । लग्नस्थलचलनत्वात् आहारपचनं कर्तुमशक्यत्वादित्यर्थः । तत्र दोषप्रकोपहेतुकरसविरसादनादजीर्णे जाते दोषभेदेन ज्वरास्त्रिविधा भवन्तीति वक्तुं शक्यते । सर्वसामान्यज्वर एकः तदन्तरदोषभेदेन त्रिधा भूत्वा ज्वरश्चतुर्विधो जातः । इतः परमष्टज्वरसङ्ख्यापूरणार्थं पञ्चमो वातपित्तज्वर इति वक्तुं न शक्यते । एतत्प्रतिपादितज्वरव्यतिरेकेण तदुत्पादकसामग्र्यभावादेव तत्कार्यं नोपपद्यते, कारणेन विना कार्याभावस्योक्तत्वादित्यस्वरसादाह-- पवनेति ।

 पवनपित्तहेतुकरसविरसजाताजीर्णजन्यामरसासृग्धातुचराद्यदोष उभयलक्षणयुक्तरोगः पवनपित्तप्रकोपज्वरः ॥ ५६ ॥

 ननु पवनपित्तज्वरोऽस्तीति सूत्रे अस्तीत्यस्य व्याख्यानं गम्यते । सूत्रव्याख्यानमन्यथा कार्यं निदानशास्त्रेऽदृष्टत्वादिति

  1. अष्टाङ्गनिदानं II-- 10-18