पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
25
प्रथमप्रश्नः

द्वेषस्स्वादुषु भक्ष्येषु तथा बालेषु तृड्भृशम् ।
शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः ।
इच्छा द्वेषश्च तदनु ज्वरस्य व्यक्तता भवेत् ॥[१]

विरुद्धरसादनाज्जातज्वरस्यैतादृशलक्षणलक्षित्वे ज्ञातव्य इत्यर्थः ।

 एकहेतुकृतकार्यस्यैकत्वेऽपि तत्तद्दोषप्रकोपकारकरसविरसजन्यामवृद्धिभेदजन्यौपाधिकज्वरं व्यपदिशति-- अङ्गेति ।

 अङ्गपीडनमलमार्गातिरोधनातिपीडनधातुमार्गविगमनानिलादनलस्थलचलनादिनाऽनिलज्वरः ॥

 सर्वाङ्गानामतिपीडनं करोति । सर्वमलमार्गानतिरुध्य पीडनं करोति । धातुमार्गगमननिरोधनाभ्यां चारतिजाड्यादिर्विकारं करोतीत्यर्थः । अत्र निदानवचनं--

आगमापगमक्षोभमृदुतावेदनोष्मणाम् ।
वैषम्यं तत्र तत्राङ्गे तास्तास्स्युर्वेदनाश्चलाः ॥
पादयोस्सुप्तता स्तम्भः पीण्डिकोद्वेष्टनं श्रमः ।
विशेष इव सन्धीनां साद ऊर्वोः कटोग्रहः ॥
पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम् ।
छिन्द्यन्त इव चास्थीनि पार्श्वाङ्गानि विशेषतः ॥
हृदयस्य ग्रहस्तोदः प्राजनेनैव वक्षसः ।
स्कन्धयोर्मथनं बाह्वोः भेदः पीडनमंसयोः ॥
अशक्तिर्भक्षणे हन्वोः जृम्भणं कणयोस्स्वनः ।
निस्तोदश्शङ्खयोर्मूर्ध्नि वेदना विरसास्यता ॥
कषायास्यत्वमथवा मलानामप्रवर्तनम् ।


 AYURVEDA
4
 
  1. अष्टांगनिदानं. II-- 6-10.