पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
प्रथमप्रश्नः

जन्यरसेन धातुं व्यापकं कर्तुं असमर्था भवतीति कृत्वा तस्मात्कला अबला भवतीत्यर्थः । तत्र सूत्रवचनं--

मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् ।
विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् ॥
अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्।
त्रीण्यप्येतानि मृत्युं वा घोरान्व्याधीन्सृजन्ति वा[१]

 एवमादिकारणेन कला अबला भवतीत्यर्थः । तदेव विरुद्धाहार इत्युच्यते । कला अबला सती अन्नं न पचति । स रोगोऽष्टप्रकारो भवति । नानाविधकार्योत्पादकसामग्रीभेदेन अजीर्णप्रधानाङ्गत्वेन ज्वरोपद्रवाः तद्भेदा भवन्तीत्याह-- आमेति ।

 आमाशयातिपूर्णात् कलाऽबलादामाशयस्थितपवनगतितिरोधानादनिलप्रकोपो हि भवति ॥

 कला दौर्बल्यात् "अजीर्णेन विना न ज्वरः" इति ज्वराः आविर्भवन्तीत्यर्थः । अत्र निदानवचनं--

स जायतेऽष्टधा दोषैः पृथङ्मिश्रैस्समागतैः ।
आगन्तुश्च मलास्तत्र स्वैस्स्वैर्दुष्टाः प्रदूषणैः ॥
आमाशयं प्रविश्याममनुगम्य पिधाय च ।
स्रोत्रांसि पङ्क्तिस्थानाच्च निरस्य ज्वलनं बहिः ॥
सह तेनाभिसर्पन्तस्तपन्तस्सकलं वपुः ।
कुर्वन्तो गात्रमत्युष्णं ज्वरं निर्वर्तयन्ति ते[२]

 स ज्वर एकोऽपि ज्वरोपद्रवकारकहेतवो नानारूपा भवन्ति । तस्मात् नराश्वपशुगजादिषु बहुरूपा भवन्तीत्यर्थः । तत्तज्जातिविधिविहितान्नादनादजीर्णाज्जातज्वराः तदुपद्रवभेदेन अष्टधा

  1. अष्टाङ्गसूत्रं VIII--33-34.
  2. अष्टाङ्गनिदानम्. II.3-5