पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
आयुर्वेदसूत्रे

तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः ।
तस्मात्तं विधिवद्युक्तैरन्नपानौदनैर्हितैः ।
पालयेत्प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः [१]

इत्यादिवचनानि बहूनि सन्ति । कुण्डल्युत्थितश्वासानिलानलचक्रजातपित्तोद्भवत्वादेव कलाज्वलने शिखिपदं प्रसिद्धम् । कुण्डलिनी अनलानिलात्मिका । तस्याः पित्तमस्तीति सकलमतसिद्धम् । सा कला ज्वलनकला । सा देहं दहतीति यत्तदयुक्तम् । यावद्भुक्तान्नं सारकिट्टतया विभज्य दन्दह्यते । अन्नपचनकार्यमात्रपर्वत्वेन कुण्डलिन्युद्भवश्वासानिलस्यैव दहनरूपकर्मप्रतिपादकत्वम् । तत्सर्वशरीरान्तस्स्थितं सत् जीवनोपकारं करोतीत्यर्थः ।

 ननु ग्रहणीकला आयुस्तेजो दधातीति यदुक्तं तन्न युक्तम् । हितामितान्नादनमेव शरीरदार्ढ्यरूपधारणं च करोति । तद्यथा पथ्यापथ्यविधिं विज्ञाय अन्नपानादने सति तुष्टिः पुष्टिश्च भवति । तदभावे कार्श्यं प्रतीयते । तस्मादेतयोरेव अन्वयव्यतिरेकाभ्यां कार्यकारणभावः । अन्नादनस्य निग्राहके रोगे सति स एव तदिति चेत् तैलादिना देहलेपनद्वारा धातुपुष्टिमिन्द्रियप्रदां कुर्यादित्यस्वरसादाह–- भक्तमिति. ।

 भक्तादनेनामाशयातिरोधनात् कलाऽबला भवति ॥ ५१ ॥

 भक्तमन्नम् । अन्नादनेनामाशयेऽतिपूर्णे सति कुण्डलिनीस्थितपित्तकला अबला भवन्ती सती अन्नादनाज्जातपाककृत-

  1. अष्टाङ्गसूत्रं III-- 70-72