पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
आयुर्वेदसूत्रे

 अत्ररोगोत्पादकपदार्थानामदृष्टत्वेन तु उत्पादकद्रव्याणामसद्भावितत्वेन तद्रोगनिवृत्त्यर्थं शास्त्रप्रवृत्तिः कथं भवेदित्यस्वरसादाह-- व्युत्क्रम इति ।

 व्युत्क्रमरसा विकारकारकाः ॥ ४७ ॥

 स्वादुतिक्तयोर्मित्रत्वम् । कषायाम्लरसयोर्मित्रत्वम् । लवणोषणरसयोर्मित्रत्वम् । एतद्व्यतिरिक्तानां एतद्व्यतिरिक्तपदार्थैरन्योन्ययोगे व्युत्क्रमरसयोस्सत्त्वम् । तस्माद्व्युत्क्रमरसावेव कारकावित्यर्थः । तस्मात्कर्माधीनवशात्पाके सम्भवति तत्र अदृष्टमेव नियामकम् । ईश्वरस्सर्वज्ञस्स एव स्वकर्मानुकूलफलं प्रयच्छति । प्रत्यहं सर्वरसादनत्वस्य सर्वशरीराणां सम्भावितत्वात् । अतः परमाप्तं पण्डितं स्वनिकटे संस्थाप्य भक्ष्याभक्ष्यपदार्थौ विभज्य तत्सर्वं पण्डिताय विज्ञापयन् तेन अरोगकार्यकारणभावं जानन् प्रवर्तेत । तत्र वचनं–

राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत् ।
सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः[१]

 व्युत्क्रमरसवद्द्रव्यादनमेव विषमान्नम् । तस्मादरक्षणीयं न किंचित् । । जठराग्निना पच्यते ।

 ननु अहरहर्भक्षितान्नं जठराग्निना पच्यते । तत्कृतपचनेन भक्षितान्नं भस्मीभवति । सर्वं सारकिट्टतया विभज्य तेन धातुपोषणं कथं क्रियत इत्यत आह-- पाचकेति ।

 पाचकपित्तं पचत्याहारम् ॥ ४८ ॥

 जठराग्निना भक्षितान्नं न पच्यते । तत् पाचकपित्तेन भाव्यम् । तेन सारकिट्टतया विभज्य किट्टकर्म कर्तुं योग्यमित्यर्थः । तत्र वचनं--

  1. अष्टाङ्गसूत्रं VII--1.