पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
11
प्रथमप्रश्नः

 न जायत इत्यजः। तौ जीवात्मपरमात्मानौ शरीराधिष्ठितावित्यर्थः । घटज्ञानवानहमिति यस्य प्रतीतिस्तस्यैव विषयानुभवत्वं अनयोरन्यतरस्य सम्भवतीत्यर्थः । अत आह--अन्य इति ।

 अन्योऽन्नमत्ति ॥ २५ ॥

 शरीराङ्गानि इन्द्रियाणि, अङ्गी शरीरी । जीवात्मन इन्द्रियगोचरविषयानुभवार्थं तदङ्गभूतेन्द्रियाणि संसृज्य जानाति, इच्छति, प्रयतते, इत्येतत्प्रत्ययान्यथानुपपत्त्या जीवात्मा अन्नमश्नुते । तद्व्यतिरिक्तात्मना किं तदनुभूयत इत्याशङ्कायामाह-- अनत्तीति ।

 अनत्त्येवमन्यः ॥ २६ ॥

 अन्यस्य परमात्मनः सर्वविषयानुभवत्वं प्रसिद्धमिति अन्यस्य फलेनाविशिष्टत्वात् एतादृशार्थफलं अनत्ति स्वयं स्वप्रकाशात्मकत्वात् स्वयमेवानुभवतीत्यर्थः ।

 विकारकार्यहेतुकसामग्रीविषयककार्यानुभवशरीरमस्यात्मनो भोगयोग्यं स्यादित्यत आह-- सतीति ।

 सति शरीरे भोगाय ॥ २७ ॥

 शरीरे सति सर्वविषयभोगार्हत्वमात्मना सम्पादितमित्याहेत्यर्थः । शरीरिणः कान्यङ्गानि ? पञ्चेन्द्रियाणामप्यङ्गत्वं प्रदिपादितम् । मनस अगोचरत्वेन मनसोऽन्तरिन्द्रियत्वेन षडित्युपदिष्टम् । षण्णामात्मनो भोगविषयप्रापकहेतुभूतार्थत्वात् । तस्माच्छरीरस्य भोगयोग्यत्वमिति स्वत एव सिद्धत्वात् । विषयविज्ञानमिन्द्रियाधीनं, इन्द्रियाणि च शरीराधिष्ठितानि । सर्वविषयाः शरीराधीना इत्यर्थः ।