पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
7
प्रथमप्रश्नः

 पूर्वोक्तरीत्या देहस्य अनामयत्वं सम्पाद्य आत्ममनननिदिध्यासनयोगेन परमसुखं जीवोऽनुभवति । तत्र वचनं--

क्रमेणोपचिता दोषाः क्रमेणोपचिता गुणाः ।
गता ये च पुनर्भावं अप्रकम्प्या भवन्ति च ॥

 अनामयकार्यकरणेन अरोगो भवन् स्वर्गसुखमेवानुभवतीत्यर्थः । एवमुक्तरीत्या देहस्य अनामयत्वं साधितम् । तावता आत्ममननसामग्री न प्रतिपादिता । किं अरोगवान्भवतीति दृढतरजठरानलवशत्वेन सर्वेन्द्रियाणां सर्वविषयभोक्तृत्वं साधितम् ? अनामयत्वमात्ममननसामग्रीमात्रजन्यत्वं न भवतीत्यस्वरसादाह अहमिति ।

 अहम्प्रत्ययः कर्मकर्ता ॥ १३ ॥

 अहंकाराधिष्ठितमात्रं रक्तोऽहं श्यावोऽहं इति प्रत्ययविषयकमहमिति ज्ञानम् । तथा ज्ञानवानहमिति अनुव्यवसायेन ज्ञातुं शक्तः सत्कर्माधिकारी भवेत् । सुकर्मणा आत्ममननं कर्तुं शक्यत इति ।

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

इति धर्मविषयकज्ञानगोचरत्वेन परब्रह्मणः मनोविषयकज्ञानगोचरत्वं सिध्यति । अधिष्ठानभूतोऽयमात्मा, यस्सिध्यति स एव जीवात्मा । तावुभौ शरीराधिष्ठितावेव । तयोरन्यस्य सर्वभोक्तृत्वं व्यपदेष्टुमाह--स्थानेति ।

 स्थानवानहंकारी ॥ १४ ॥

 परमात्मनामधिष्ठानरूपत्वं नोपपद्यते । तज्जीवात्मनां सम्भवतीत्याशयवानाहेत्यर्थः । यस्य यावत्कालो योगश्चरति तस्य अरोगित्वस्य स्वतस्सिद्धत्वादित्यत आह--यावदिति ॥