पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
आयुर्वेदसूत्रे

आमाशयस्थो हत्वाऽग्निं[१] सामो मार्गान्विधाय च ।
विदधाति ज्वरं दोषः तस्मात्कुर्वीत लङ्घनम् ।

 जठराग्निप्रवर्तकसामग्री यस्यास्ति तस्य सर्वभोक्तृत्वं वक्तुं शक्यते । चिरायुरपि लभ्यते ।

 ननु सर्वेषां रोगाणामामनिवृत्तिरेव तत्र भेषजमिति वक्तव्ये सति ज्वरादावामनिवृत्त्यकरणं दोषहेतुकं भवति । आमनिवृत्तिरपि लङ्घनादेव भाव्येति लङ्घनकरणमप्यावश्यकमिति ब्रह्मणा प्रतिपादितमित्याह--आदीति ।

 आदिभूतमाह ब्रह्मा ॥ १० ॥

 उभयमपि रोगनिवर्तकप्रतिपादनादामशोषणार्थं लङ्घनकरणमपि परम्पराहेतुभूतमिति ब्रह्मा आहेत्यर्थः । अत्र सूत्रवचनं--

[२]लङ्घनं कार्यमामे तु विष्टम्भे स्वेदनं भृशम् ।

 इति वचनाल्लङ्घनेन आमनिवृत्तौ सत्यां तेन फलीभूतं किमासीदित्यत आह--तदिति ।

 [३]तन्निवृत्तिरनामयम् ॥ ११ ॥

आमनिवृत्तेरेव पुरुषार्थो भूत्वा अरोगवान् भवति ।

दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः ।
ये तु संशोधनैश्शुद्धा न तेषां पुनरुद्भवः ॥

इति लङ्घनपाचनैर्जितदेहस्य व्याधयो न पुनर्भवन्तीत्युक्तम् । तथा सति सर्वविषयात्मकानि पञ्चेन्द्रियाणि । मनस अत्मगोचरत्वं केनोपायेन हेतुना भाव्यमित्यत आह--अनामयीति ।

 अनामयी अत्मानं[४] सम्मन्यते ॥ १२ ॥


  1. अष्टाङ्गसूत्रम्. VIII--27.
  2. अष्टाङ्गसूत्रम्. VIII--27.
  3. तन्निवृत्तेरनामयी.
  4. अनामयादात्मानं.