पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
आयुर्वेदसूत्रे

 इति । ..........................दोषाणां वृद्धिक्षययोरुपपादकत्वमनयोरेव वृद्धिप्रतिपादकत्वात्--

वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः ।

 एतयोरेव कार्यकारणभावः । परम्परया कारणत्वं वक्तुं शक्यत इत्यर्थः ॥

 ननु दोषवृद्धिक्षयौ स्वत एव प्राप्तौ, नेन्द्रियातिलालनातिपीडनयोः । तयोः कार्यकारणभावस्तु कालवशादेव प्राप्तः । तत्र सूत्रस्थानवचनं--

चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ।
वर्षादिषु तु पित्तस्य श्लेष्मणश्शिशिरादिषु ॥[१]

 एतद्वचनानुसारेण अनयोः कार्यकारणभावः कथं वक्तुं शक्यत इत्यस्वरसादाह-- लक्षणेति ।

 लक्षणान्यपि तथा ॥ ६ ॥

 अप्राप्तकाले प्राप्तलक्षणानि यत्र भासन्ते प्राप्तकाले तल्लक्षणाभावो यत्र भासते तत्र नियमः । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । तत्र सूत्रवचनं--

कालार्थकर्मणां योगा हीनमिथ्यातिमात्रकाः ।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् ।
रोगस्तु दोषवैषम्य दोषसाम्यमरोगता ॥[२]

 असाधारणधर्मवचनहेतुज्ञानजन्यामयनिवर्तकयोग्यकार्यं व्यपदिशति--योग्यैरिति ।


  1. अष्टाङ्गसूत्रं XII--24.
  2. अष्टाङ्गसूत्रं I---19-20.