एवमाकारेण विकारं ज्ञात्वा तन्निवर्तनं पथ्यादनमेव भाव्यम् । तद्धेतुभूतार्थं त्विदमेव संरक्षणीयम् । हीनातिमात्रान्नादानं विकारहेतुकम् । तन्निवर्तकहेतुभूतार्थं रक्षणीयमिति तात्पर्यम् ।
इन्द्रियातिलालनातिपीडनयोः विकारहेतुकत्वं न स्यादित्यस्वरसादाह--नेति ।
नेन्द्रियातिलालनातिपीडनौ ॥ ४ ॥
इन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । तेषां शब्दस्पर्शरूपरसगन्धा विषयाः । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । हितमितप्रवृत्तिविषयकं कुर्यादित्यर्थः । ननु हीनभोजनातिभोजनयोः रोगहेतुकत्वं प्रतिपादितम् । तत्र वचनं--
भोजनं हीनमात्रं तु न बलोपचयौजसे ।[१] |
एतद्वचनानुसारेण अनयोरेव हेतुत्वं प्रतिपादितं, नेन्द्रियातिलालनातिपीडनयोः । तस्मादेतत्सूत्रं व्यर्थं स्यादित्यस्वरसादाह--दोषेति ।
दोषवृद्धिक्षयोपपादकौ ॥ ५ ॥
दोषाणां वृद्धिरपि दोषरोगहेतुर्भवति । दोषाणां क्षयोऽपि दोषप्रकोपहेतुर्भवति । दोषहेतुकत्वं नाम दोषप्रकोपहेतुकत्वम् । दोषविकारस्य वृद्धिक्षययोश्च कार्यकारणभाव उद्दिष्टः नेन्द्रियातिलालनातिपीडनयोरिति । अत्र वचनं--
न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।[२]