पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
310
आयुर्वेदसूत्रे
स्वर्जिकादिद्वादशपदार्थाः धूपलेपक्वाथीकृताः गुदाङ्कुरामयहारकाः ।
३०
 
करञ्जादेकादशार्थाः धूपलेपक्वाथतैलोपयुक्ताः अर्शोरोगनिवारकाः ।
३१
 
दशमूलाद्येकविंशद्रव्यं धूपलेपकाथतैललेहरूपं सत् गुदाङ्कुरामयताहारकम् ।
३२
 
भार्ङ्ग्यादि[१] द्वादशभेषजाः चूर्णक्वाथघृततैललेह्यरूपाः गुदाङ्कुरामयहारकाः ।
३३
 
अतिविषादिपञ्चदशपदार्थाः चूर्णक्वाथलेहविकारभूता अतिसारविकारहारकाः ।
३४
 
मरीच्याद्यष्टादशद्रव्यं तद्वदतिसारनिवर्तकम् ।
३५
 
[२]निष्ठादि दशद्रव्यं तद्वदतिसारनिवर्तकम् ।
३६
 
पथ्यादित्रयोदशद्रव्यचूर्णक्वाथाभ्यां अजीर्णामयो निवर्तते ।
३७
 
[३]आक्रन्दित्रयोदशपदार्थाः चूर्णक्वाथरूपाः अजीर्णामयहारकाः ।
३८
 
विश्वादिदशद्रव्यं चूर्णक्वाथलेहरूपं सत् अजीर्णामरोगनिवर्तकम् ।
३९
 
मुस्तादिद्वादशद्रव्यं चूर्णक्वाथोपयुक्तं अजीर्णामयरोगनिवर्तकम् ।
४०
 
[४]वेण्वादि पञ्चदशद्रव्यं चूर्णक्वाथ घृततैलरूपं अग्निमान्द्यामयहारकम् ।
४१
 
सैन्धवादिद्वादशद्रव्यं तद्वद्भेषजं मन्दाग्निरोगनिवर्तकम् ।
४२
 
विश्वादि सप्तपदार्थाः क्वाथरूपा [५]मन्दानलहारकाः ।
४३
 


  1. भाज्यादि--A & C
  2. निष्टादि--A.
  3. आर्द्रादि ?
  4. पाठादि ?
  5. मन्दानिल--A & C.