पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
308
आयुर्वेदसूत्रे
त्थाम्र चूतजम्बूविजयाबीजफेनुजीरकोलचव्यचित्रकवराम्लघुणप्रियावत्सकबीजयष्टित्रुतृटिकैडर्यशरपुङ्खलशुनहिङ्गुधात्रीविभीतकग्रन्थितलपोटक[१]तितीरसवद्द्रव्यवद्यावत्पदार्थाः चूर्णक्काथघृततैललेह्यरूपा अतिसारग्रहणीरोगनिवर्तकाः ।
१८
 
पृथिव्यादि[२] गुणाधिकस्वसमानाधिकरणस्वादुरसोपलम्भक द्रव्यादनजाताजीर्णामयनिवर्तकरजोगुणाधिकोपलम्भकाम्लरसवदम्बुभूतद्रव्यं अजीर्णामयनाशकम् ।
१९
 
पत्थ्याधात्र्यक्षपुनर्नवाहिङ्गुशरपुङ्खव्याघ्रीदुरालभपूगीफलतमालक्षाराम्लजम्बीरार्कस्नुहिशिग्रुपर्वकोग्रगन्धकरञ्जखदिराग्निश्रीपर्णीश्रीभन[३]जयाग्नेयाः चूर्णक्वाथलेहरूपाः अजीर्णामयनिवर्तकाः ।
२०
 
अग्निभूतद्रव्याधिकस्वसमानाधिकरणाम्लरसोपलम्भकद्रव्यादनजाताजीर्णजातामरोगनिवर्तकं पार्थिवगुणाधिकस्वादुरसवद्द्रव्यम् ।
२१
 
विश्वदेवकुसुमकटुकणाग्निरसोनदीप्यककरञ्ज पुनर्नवायवजीरकहिङ्गुस्तवत्सकवसुकपत्थ्या[४]जिग्रसुरगीजातिफलतलपोटकटकबर्बुरकुष्ठयावत्सरसवद्द्रव्यं चूर्णक्वाथकल्कादिविकारं सर्वाजीर्णामरोगनिवर्तकम् ।
२२
 
अम्बुपवनभूतस्वसमानाधिकरणरसोपलम्भकद्रव्यादनाजीर्णामपित्तज्वरजन्यमन्दानिलरुङ्निवर्तकपवन
 

  1. तिक्तरस--DrB.S.
  2. पृथिव्याद्वि.
  3. श्रीफल--DrB.S.
  4. शिघ्र--DrB.S.