पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
307
षोडशः प्रश्नः
तन्निवर्तकवह्निभूतगुणोपलम्भकयावद्द्रव्यादनं छर्द्यामयभेषजम् ।
१३
 
शठधनिजलजाजाजि[१] मुद्गपाठाकटुकमधुकपित्थिशिवायुतामृतामरीच्येलाकार्पासचन्दनमाक्षिकजीरकलवङ्गयत्वक्केसरप्रियङ्गुशशियुतार्थाः चूर्णक्वाथतैललेह्यरूपाः छर्द्यामयनाशकाः ।
१४
 
त्वङ्मांसमेदोवर्धकाधिकरसविरसद्रव्यादनाजीर्णजम्यान्यामपित्तविषक्रिमिग्रस्तसिराविकारकारकगुदाङ्कुरामयप्रकोपहारकद्रव्यादनं तत्तदामयविनाशकम् ।
१५
 
स्वर्जिकानिशावन्तोन्तीमुसलीशिरीषकणातुत्थजाजि(नि)वेण्वर्कस्नुग्भल्लातककरञ्जवकुलधात्रीविभीतकाभयायवानीबिल्वपुनर्नवाशिरिषलि[२]सैन्धव(ति) मरिचसूरण[३] चव्यजीरक वज्रवल्ली मूर्वापामार्गक दशमूललवङ्ग केसर मुरगि[४] मोहा[५] भीरुब्राह्मीघोषाकुष्ठहिंगुसैन्धव भार्ङ्गिरास्नामधूकवचाशिरीषधातुमयूरकोशीरपाठा दुस्पृक्सिद्धार्थपलाण्डवः पदार्थाः भूपरि[६]पक्वगन्धघृततैललेह्यरूपभूता गुदाङ्कुरामयहारकाः ।
१६
 
यावद्भूतविहितविरुद्धरसाधिकधातुवद्द्रव्यादनाजीर्णजातामपित्तविषक्रिमिकारकद्रव्यविरुद्धयावद्द्रव्यादनं रसधातुसारातिसारनिवर्तकम् ।
१७
 
अतो[७] विषघनविरोषण[८] दिव्यपाठाभयाकुटजाजाज्यजमोदमोचरसधातुचिरिबिल्वतिन्दुकदाडिमपद्मफलिनीमरिचधविकाजाजिकगुणितिन्त्रिणीयवशूर[९] ककपि
 

  1. for जलाजा of the text--Dr B.S.
  2. शिरिषशलि--Dr. B.S.
  3. पुराण–-C
  4. मुरङ्गि, or सुरङ्गि--Dr. B.S.
  5. मोदा--Dr. B.S.
  6. भूपति--A&C.
  7. अथो--Dr. B.S.
  8. वरोषण--A.
  9. चविकाजाजिकाङ्गुणितिन्त्रिणंणीयवशूक--Dr. B.S.