पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
आयुर्वेदसूत्रे
इन्द्रदेवता प्रार्थनं विधिः ।
३५
 
विचृतिविरुद्धगतिसम्भवग्रहयोगकालवशात्क्षयस्सम्पद्यते ।
३६
 

नवर्णबोधकयावत्सिरानालावृतप्रयुक्तद्रव्ययोगकरणं

तदामयनिवर्तकम् ।
३७
 
पितृदेवताप्रार्थनं भेषजम् ।
३८
 
अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् अश्मरीरोगः प्रतिभासते ।
३९
 

{{rh|left=पफवर्णद्योतकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं

अश्मरीनिवर्तकम् ।
४०
 
अब्देवताप्रार्थनं निवर्तकम् ।
४१
 
अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् छर्दिरोगः प्रपद्यते ।
४२
 
बभवर्णद्योतकयावत्सिरानालावृत ओषधियोगकरणं निवर्तकम्[१]
४३
 
विश्वेदेवाभिषेचनं निवर्तकम् ।
४४
 
श्रोणानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालसंयोगवशादरुचिरोगः[२] प्रपद्यते ।
४५
 
मवर्णबोधकयावत्सिरानालाऋवृततदुपयुक्तद्रव्ययोगकरणं तदामयनिवर्तकम् ।
४६
 
विष्णुदेवताप्रार्थनं तत्र भेषजम् ।
४७
 
श्रविष्ठानक्षत्रविरुद्धगतिसम्भवग्रहसंयुक्तकालसंयोगवशात्पवनामयः प्रपद्यते ।
४८
 
यरवर्णोच्चारणहेतुकतत्तत्सिरानालावृततत्सजातीयद्रव्यं तदामयनिवर्तकम् ।
४९
 


  1. अब्देवतेत्यादि--करणं निवर्तकं इत्यन्तं कोशद्वयेऽप्यदृष्टं सन्दर्भवशादुद्धृतम्.
  2. हृदयामयः.