पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
301
पञ्चदशः प्रश्नः
ञ्चवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं मूर्छामयभेषजम् ।
२०
 
इन्द्रदेवताप्रार्थनं विधिः ।
२१
 
स्वातीनक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात् नेत्रामयः प्रपद्यते ।
२२
 
टठवर्णबोधकयावत्सिरानालाबृतद्रव्यं [१]नेत्रामयहारकम् ।
२३
 
वायुदेवताप्रार्थनं विधिः ।
२४
 
विशाखानक्षत्रविगतिजातग्रहयुक्तकालवशात्कर्णरोगः प्रपद्यते ।
२५
 
डढवर्णद्योतकसिरानालावृतौषधियोगकरणं निवर्तकम् ।
२६
 
इन्द्राग्निदेवताप्रार्थनं तत्तत्कर्मविपाककरणं भेषजम् ।
२७
 
अनूराधानक्षत्र विगतिजातग्रहयुक्तकालवशान्नासिकामयः प्रपद्यते ।
२८
 
णवर्णज्ञापकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं नासिकामयहारकम् ।
२९
 
मित्रदेवताप्रार्थनं निवर्तकम् ।
३०
 
तथवर्णज्ञापकयावत्सिरानालावृतौषधिकरणं नासिकामयहारकम् ।
३१
 
मित्रदेवताप्रार्थनं निवर्तकम् ।
३२
 
रोहिणीनक्षत्र विगतियोगजातग्रहयुक्तकालवशान्मुखामयस्सम्पद्यते ।
३३
 
दधवर्णबोधकयावत्सिरानालावृततत्तदुपयुक्तयोगकरणं मुखामयनिवर्तकम्[२]
३४
 


  1. कर्णामय--A&C.
  2. विचृत्यनन्तरं रोहिणीत्यादिवाक्यं पठितं कोशद्वयेऽपि दृश्यते.