पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
300
आयुर्वेदसूत्रे
आश्लेषानक्षत्रविगतियोगग्रहयुक्तसमययोगात् पाण्ड्वामयः प्रवर्तते ।
 
क ख वर्णद्योतकयावत्सिरानालावृततत्तत्सजातीयद्रव्ययोगकरणं पाण्ड्वामयनिवर्तकम्[१]
 
मखानक्षत्र विगतिजातग्रहयुक्तकालविशेषवशात् श्वासामयः प्रपद्यते । ग घ वर्णद्योतकयावत्सिरानालावृतयावदोषधयस्तन्निवर्तकाः ।
 
पितृदेवताराधनजपहोमा भेषजम् ।
१०
 
फल्गुनीनक्षत्रात्मकविषमगतिजातसमयविशेषवशात्कासामयस्सम्पद्यते ।
११
 
ङ वर्णज्ञापकयावत्सिरानालावृतौषधियोगकरणं कासामयनिवर्तकम् ।
१२
 
अर्यमदेवताप्रार्थनं विधिः ।
१३
 
फल्गुनीनक्षत्रविगतिजातग्रहयुक्तकालवशात्कुष्ठामयः प्रपद्यते । च छ वर्णद्योतकयावत्सिरानालावृतौषधियोगकरणं कुष्ठामयनिवर्तकम् ।
१४
 
भगदेवताप्रार्थनं विधिः ।
१५
 
हस्तोडुविगतिजातग्रहयुक्तकालवशान्मेहामयो भासते ।
१६
 
ज झ वर्णद्योतकयावत्सिरानालावृतौषधयोगकरणं मेहामयनिवर्तकम् ।
१७
 
सवितृदेवताप्रार्थनं भेषजम् ।
१८
 
चित्त्रानक्षत्रविगतियोगज्ञाजातग्रहयुक्तसमयविशेषवशान्मूर्छामयः सम्पद्यते ।
१९
 


  1. देवतार्चनं नोक्तं वा ? लेखकेन त्यक्तं वा ?