पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
294
आयुर्वेदसूत्रे
पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं ऐवर्णाधारकमलं रतिसुखकारकम् ।
 
तिष्यतारारूपं सप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनाभिपद्मं श्वासपवनगतिकारकम् ।
 
आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं कुण्डलीकृतनाभ्यावृतपद्मं पवनगतिकारकम् ।
 
मखानक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकं ‘अम्’ इत्यनुसारबोधकनाभ्यावृतपद्मं पाचकपित्तप्रतिपादकम् ।
१०
 
फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापकवृषणद्वयपद्मं सप्तधात्वङ्कुरालवालपोषकम् ।
११
 
उत्तरफल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बखवर्णज्ञापकरोमराजिपद्मं विसर्जनरूपसुखहेतुकम् ।
१२
 
फल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकखवर्णज्ञापकस्वाधिष्ठानपद्मं सर्वाशयद्योतकम्[१]
१३
 
हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् ।
१४
 
चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णबोधकवामपक्षगतपद्मं परिपूर्णगर्भाशयकारणम् ।
१५
 
स्वातीताराप्रतिपादकं सप्तत्रिंशत्सिराधारकं ङवर्णज्ञापकं [२]दक्षिणहस्तपद्मं तत्तच्छरीरगतभिन्नस्वर[३]ज्ञापकम् ।
१६
 
विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवामहस्तपद्मं स्त्रीपुंसस्वरभेदज्ञापकम् ।
१७
 


  1. तृतीयं फल्गुनीनक्षत्रमिदमधिकमिति भाति.
  2. हस्तद्वयपद्मं--A&C.
  3. सर्वA&C.