पुटमेतत् सुपुष्टितम्
288
आयुर्वेदसूत्रे
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम् ।
४२
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ।
४३
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।
४४
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ।
४५
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ।
४६
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ।
४७
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।
४८
सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।
४९
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।
५०
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।
५१
क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् ।
५२
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ।
५३
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ।
५४
सत्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ।
५५
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ।
५६
जात्यन्तरपरिणामः प्रकृत्यापूरात् ।
५७
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
५८
निर्माणचित्तान्यस्मितामात्रात् ।
५९
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ।
६०
तत्र ध्यानजमनाशयम् ।
६१
कर्माशुक्लाकृष्णं योगितस्त्रिविधमितरेषाम् ।
६२