पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
आयुर्वेदसूत्रे
सतिमूले तद्विपाको जात्यायुर्भोगाः ।
१२
 
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।
१३
 
परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ।
१४
 
हेयं दुःखमनागतम् ।
१५
 
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।
१६
 
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ।
१७
 
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।
१८
 
द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुपश्यः ।
१९
 
तदर्थ एव दृश्यस्यात्मा ।
२०
 
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।
२१
 
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।
२२
 
तस्य हेतुरविद्या ।
२३
 
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ।
२४
 
विवेकख्यातिरविप्लवा हानोपायः ।
२५
 
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।
२६
 
योगाङ्गानुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ।
२७
 
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।
२८
 
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।
२९
 
एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतं ।
३०
 
शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः ।
३१
 
वितर्कबाधने प्रतिपक्षभावनम् ।
३२
 
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमो