पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
281
दशमः प्रश्नः
स्थौणेयः[१] तिक्तरसः शोभकासहिक्कावम्यरोचकहिध्माविनाशनः ।
४५
 
दीर्घायुस्स्वादुरसः रक्तपित्तानिलविनाशकः ।
४६
 
जीवकं[२] कटुरसं चक्षुष्यं सर्वरोगजित् ।
४७
 
माषा स्वादुरसा रक्तपित्तहरा कफशुक्लकारिका ।
४८
 
वृष्यवल्ली स्वादुरसा बल्या वृष्या समीरजित् ।
४९
 
यष्टिः स्वादुरसा छर्दिविषमपित्तपवनापहा ।
५०
 
इक्षु[३]स्स्वादुरसः श्वासकासपवनासृक्पितरसहरा रसायनी ।
५१
 
गोपा स्वादुरसा वातपित्तातिसारघ्नी ।
५२
 
कर्णिका स्वादुरसा लघुज्वरश्वासकासादिदाह[४] जित् ।
५३
 
वाकूची[५] स्वादुरसा कुष्ठवातज्वरविनाशिनी ।
५४
 
मदनस्तिक्तरसः क्षयगुल्मप्रमेहकारकः ।
५५
 
वंशस्तिक्तरसः[६] कफविषहरो वर्ण्यः[७]
५६
 
त्रपुसं स्वादुरसं वातासृक्पित्तमूत्रकृच्छ्रविकारजुनुत् ।
५७
 
कोशातकी स्वादुरसा वातपित्तगुल्मप्रमेहहारिका ।
५८
 
वन्ध्या कषायरसा पाण्डुशोभोदरार्शःकफपित्तातिसारजित् सरा[८]
५९
 
धात्री[९] कषायरसा कफपित्तहरा वृष्या ।
६०
 
विद्रुमः[१०] तिक्तरसः नेत्रकण्ठरोगघ्नः केशवृद्धिकरो लघुः ।
६१
 
 AYURVEDA
36
 


  1. स्थौणः--A.&.C.
  2. देवकं--A. वनं--C.
  3. बिक्षुः--A.&.B. निक्षुः--C.
  4. कासविदाह--A.&.C.
  5. दाहाची--B. वारुजिः--C.
  6. A.C. कोशयोस्त्यक्तमिदं पदद्वयम्.
  7. वृष्यः
  8. स्थिरा--B.
  9. रात्रिः--A.&.C.
  10. कतिद्रुमः--A.&.C.