पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
279
दशमः प्रश्नः
(अ) शुचिमलापहारकम् ।
 
पार्थिवावयवयोगात्सर्वरसानुगुणदं भवति ।
 
स्वादुरसवद्द्रव्ययोगाच्छुक्लाभिवृद्धिं करोति ।
१०
 
अब्भूताभिवर्धकम् ।
११
 
तत्कालातियोगादम्लरसवज्जलं [१]पचनपित्तप्रकोपहारकम् ।
१२
 
[२]तिन्त्रिका तिक्तरसा ज्वरपित्तापहा ।
१३
 
[३]शृंगीसतिक्तं ज्वरातिसारनुत् ।
१४
 
[४]मूर्वा स्वादुरसा विषमज्वरहृद्रोगनाशिनी ।
९५
 
[५]विषा तिक्तरसा विषमज्वरक्षयतृष्णापहा ।
१६
 
[६]कल्यस्तिक्तरसो रक्तपित्तकुष्ठकण्डूकफरोगघ्नः ।
१७
 
[७]नेता तिक्तरसा रक्तपित्तकण्डूव्रणघ्नी ।
१८
 
[८]दीपनीरसा भूनिम्बा तिक्तरसा कफज्वरतृष्णाप्रकोपहारिणी ।
१९
 
कैडर्यः कटुरसो रुच्यो ग्राही दीपनः कासापहः ।
२०
 
रोहिणी तिक्तरसा सर्वज्वरकासजित् ।
२१
 
मुस्ता तिक्तरसा कफपित्तज्वरारोचकविनाशिका ।
२२
 
तारस्तिक्तरसः मदभ्रमज्वरातिदाहनुत् ।
२३
 
वालुकं तिक्तरसं दुष्ट[९]कण्डूविसर्पकविदाहज्वरविनाशकम् ।
२४
 
तुरुष्कः कटुरसो देवताप्रियः [१०]कुष्ठकण्डूकासतृष्णाप्रदः ।
२५
 
मृगमदः कटुरसः कासपवनहरः हृद्यगन्धप्रदः ।
२६
 
उशीरः कटुरसः शीतलहृन्नेत्र[११]रुजापहः ।
२७
 


  1. पवन--B.
  2. तन्द्रिका-–A&C.
  3. स्रंगीस--B.
  4. मूला--A&C.
  5. वृषा-–A&C.
  6. कल्यास्तिरसो--A&C.
  7. सता–-A.
  8. दिवनिरसारः--A&C.
  9. कुष्ठ--A.
  10. कुष्ठकामलकफतृष्णा-–A&C.
  11. शीतलकफहृन्नेत्र--A.