पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
271
अष्टमः प्रश्नः
भूतपूर्वजातरसजातरोगास्तत्तद्भूतपूर्वरसादनाज्जातरोगाः ।
३९
 
समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्रवर्धन्ते ।
४०
 
दर्शनस्पर्शनाभिभाषणादि[१] भेदाः प्रदृश्यन्ते ।
४१
 
जाङ्गलानूपसाधारणदेशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः ।
४२
 
शोधनशमनरूपं [२]द्विप्रकारं भेषजम् ।
४३
 
[३]दोषास्तत्रेरिताः ।
४४
 
[४]तैर्देहशोधनं भेषजम् ।
४५
 
[५]तैर्देहशोधनमन्नं भेषजम् ।
४६
 
ऊर्ध्वाधोवस्तिकर्मोपकारकम् ।
४७
 
तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः ।
४८
 
शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् ।
४९
 
सर्वौषधक्षमो रोगी भवेदरोगी ।
५०
 
व्युत्क्रमास्ते दोषविकारकाः ।
५१
 
विषमगतिविकारकारको रोगः ।
५२
 
अरोगी दोषसमगत्या ।
५३
 
अहरहरात्मानमेवाभिमंस्यात्[६]
५४
 
प्रातरुत्थायाभिमतदेवतायाजनम् ।
५५
 
तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् ।
५६
 


  1. भाषणवि--B.
  2. रूपप्रकारं--A&C.
  3. A.C.कोशयोनैतद्दृश्यते ।
  4. तैर्दाहः—-A.B.C.
  5. तैर्दाहः—-A.B.C.
  6. भिगमनं न्यव्यात्--B. भिगमनं स्वस्यात्--A&C.