पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
270
आयुर्वेदसूत्रे
अनलोत्पादकजाताः पीतधर्ममध्यभूताः ।
२४
 
अनेकावयवी [१]पीतप्रभा ।
२५
 
अनिलाधिक्यद्रव्याणि दुर्गुणगुणहीननिर्गुणवन्न भासन्ते ।
२६
 
जातरूपानिलरूपे अनेकवर्णेष्वेकाधिको भवेत् ।
२७
 
एकैकजातीयानामनेकजन्मनामेवंविधिः ।
२८
 
तद्भूतरूपाधिगतवातपित्तकफान्यविकारहेतुज्ञानवानायुष्कामो भवति ।
२९
 
[२]दोषप्रभावज्ञानपूर्वकं नाभेरधस्तादूर्ध्वे हृदिस्थवातपित्तकफाः समस्ता असमस्तास्समग्राण्यामयप्रतिपादकाः ।
३०
 
यत्रस्था ये रसास्तत्तद्भूतजातास्ते धातुपोषकाः ।
३१
 
अविकृतास्ते तान्पुष्णन्ति[३]
३२
 
शुक्लशोणितसन्निपातकास्तथा ।
३३
 
मातुराहारजातहेतुकाः तावद्द्रव्यजा रुजः योनिप्रकृतयश्चिरावृतास्ताभिरावर्तन्ते । ताभिरभिवर्धन्ते ।
३४
 
तेन च[४] लोकोऽभिभूयते ।
३५
 
शुक्लशोणितसन्निपातकाले वा मातुराहारजातहेतुका योनिप्रकृतयस्ताभिरावृतास्ताभिरभिवर्धन्ते ।
३६
 
शरीरे शोषकपोषकद्रव्यैस्तथा ।
३७
 
कायकामविकारजाताः मानसिकाश्चाभिघातजाः यावन्तोऽभिवर्धन्ते यावद्द्रव्यजातरोगाः अवयवविकारहेतुकास्तावद्द्रव्यजातरुजः प्रपद्यन्ते ।
३८
 


  1. पित्रप्रभा इति पाठः.
  2. दोषभाव--A&C.
  3. स्थितान्पुष्णन्ति--A.
  4. तच्चकिलोको--C.