पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
267
सप्तमः प्रश्नः
नीलपीततृणानि सुषुप्तौ दृश्यन्ते ।
६८
 
महिषाहिगर्दभदर्शनम् ।
६९
 
भूतप्रेतपिशाचाश्च ।
७०
 
एतान्यरिष्टसूचनाङ्गानि[१]
७१
 
द्विधातुशोकमधुररसः कफदोषहेतुकः ।
७२
 
गगनानिलगुणरसकटुरसास्स्वादुरसजनितकफापहाः ।
७३
 
आद्यद्विधातुशोषकं यादृशं एतादृशं यच्चाक्षुषं सकृदविषयीकरोति ।
७४
 
यद्भूताधिकजाता धातवस्तद्भूताधिकगुणाभिवर्धकाः ।
७५
 
यद्धीनगुणो भवेत्तच्छोषकः ।
७६
 
तज्जाताश्च साध्याः[२]
७७
 
मन्दं मन्दं पचत्यनलः ।
७८
 
जीर्णानलादजीर्णानलः ।
७९
 
अनलधातुवर्धकमरिष्टनिवर्तकम् ।
८०
 
पवनधारणात्तत्तत्सारादुत्थितरसास्तेजोभूतोद्भवसकलरसा अमृताहितपथरोधनाद्विरसा[३] भवन्ति ।
८१
 
[४] प्रकाशार्थं न गोचरति ।
८२
 
चन्द्रानलनक्षत्राश्च तैजसानि भान्ति[५]
८३
 
हीनर्क्षं नभोऽर्थं संवत्सरारिष्टहेतुवद्दृश्यते ।
८४
 
तज्जन्यजातरोगाश्चासाध्याः ।
८५
 
सार्द्रस्वादुरसवद्द्रव्यं तत्तत्प्रदिष्टारिष्टहारकम् ।
८६
 


  1. रिष्टसूचकानि--B.
  2. श्चासाध्याः--A&C.
  3. अमृताहितपथिरुदानद्विरसा--A&C.
  4. B कोशे प्रकाशार्थमित्येव पाठः.
  5. तैजसान्निहन्ति--C.