पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
263
सप्तमः प्रश्नः
यावद्योगैक[१] कषायरसनिवर्तकः [२]प्रथमद्धातुस्थविभूतगुणशुद्धस्वादुरसविरसान्त्यजन्यानिलः तिक्तधातौ चरन्[३] एकैकं नैकविधो बहु हूयते[४]
 
प्राकृतवैकृतरूपानिलाम्लरसानुगतस्वादुरसोऽनिलहरः ।
१०
 
मन्दमधुरमध्यमाम्लाधिकलवणद्रव्यैकसंसृष्टान्तिक[५] मलरोधार्शसः कायपवनादिरोगाः प्रपद्यन्ते ।
११
 
हीनाम्लरसमध्यलवणधिकाम्लरसवद्द्रव्यैः श्वासखासवमनोद्गारादीनां इन्द्रियाधिगताध्मानाद्यामयाश्च दृश्यन्ते ।
१२
 
क्ष्माम्भोरसवद्भूताम्बुरसक्षारगुणानुसर[६] स्वादुरसवद्भूरुहाः रसासृक्पित्तपवनापहाः ।
१३
 
यद्द्रव्यानुसरितं[७] यद्द्रव्यं तत्सारान्यसारवद्बीजं तज्जन्यतैलं तद्द्रव्यं वर्धयन्[८] यावत्सारफलदं पवनहरं सकलधातुपोषकम् ।
१४
 
यावद्द्रव्यसारान्यद्रव्ययोगरसान्यसारोषणजातं

यावद्द्रव्यान्यजन्यधूमहेतुक[९]मनलगुणानुसरि

तमार्द्रज्वलनज्योतिरात्मकभूतोषण[१०]रसगुणदं कफानिलहरं पित्तप्रकोपकारकं मूलाधारोद्बोधकम्[११]
१५
 
पवनात्मकासवपेय[१२] भूरुहास्सतुषैकबीजकाण्डा[१३]देहवातयोग्यसकलदोषहरास्सुप्तधातुप्रदाः ।
१६
 


  1. यावद्द्रव्यैक--C.
  2. निवर्तकाः--A. B. C.
  3. तिक्तधतुचरन्--A. B&C.
  4. बहूयते—-A.
  5. द्रव्यैः कविपृष्टान्तिक–-B.
  6. म्बुरसक्ष्मानुगुणानुरस--A&C.
  7. नुसृतं--C.
  8. दर्शयन्--B.
  9. धूमधातुक--A.
  10. त्मकमृतोष्णरस--A&C.
  11. धारबोधकम्—-C.
  12. पवनात्मकमासवपेये--A&C.
  13. स्तुष्टेकबीजकाण्डे-–A&C.