पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
256
आयुर्वेदसूत्रे
तदन्योन्यसंयोगज्ञानपूर्वकमात्मस्वरूपविज्ञानमानन्दहेतुकम् ।
९४
 
विज्ञानसामग्री आत्ममनोविषयपूर्वकं तत्तद्विषयविज्ञानस्याश्रयवान् भवति ।
९५
 
रोगपापविसर्जनं साश्रयस्थितस्थापकम् ।
९६
 
ताभ्यामधिभूतं अभयदं सर्वशरीरधारकं धातुल[१]क्षणम् ।
९७
 
निवर्त्यनिवर्तकविषयविधिं ज्ञात्वा विषये नप्रमत्तं साध्यासाध्यविधिनिषेधज्ञानपूर्विका कार्या चिकित्सा ।
९८
 
एकैकशरीरद्रव्यभेदमेकैकभेषजम् ।
९९
 
पृथिव्युद्भवगुणोऽम्लरसवन्निरसद्रव्ययोश्शोषकपोषकः ।
१००
 
अब्भूतगुणो गतरसवद्द्रव्ययोश्शोषकपोषकः ।
१०१
 
तेजोभूतोद्भवावूषणरसान्तर्हितलवणोषणरसौ अम्बुपवनयोश्शोषकपोषकौ ।
१०२
 
पवनभूतोद्भवः सकलरसावगतस्पर्शयोग्यद्रव्यरसापहृतरसादिकीर्णरक्तरसस्सकलदोषनिवर्तकः ।
१०३
 
गगनभूतोद्भवतच्छायात्मभूनिष्ठतिक्तरसाधीनानिलानलोष्मरुज आकाशाधीनकषायरसा यावत्सर्वदोषस्थामयापहाः ।
१०४
 
यावद्धातुपोषकद्रव्यादनात्तत्तद्रोगनिवर्तकाः ।
१०६
 
विषयविषयाणामात्माभिघातान्मारुतोद्रेकहेतुकम् ।
१०६
 
अदनाभिघातजरुजोऽदनाभिघातहेतोरदनजामनिवर्तकनिवृत्तिः ।
१०७
 
दुस्साध्या अभिघातजाः ।
१०८
 
सिरानिवर्तकाश्शरीरनाशकाः ।
१०९
 

  1. भूतलक्षणम्--B