पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
253
पञ्चमप्रश्नः

हेतुकत्वमिति कृत्वा तस्मादित्युपसंहारपदं सूत्रद्वयेऽपि पठितमिति ॥

इत्यायुर्वेदस्य पञ्चमप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्र
व्याख्यानं लोकोपकारकृतं
समाप्तम्.



महादेवस्त्वेनं प्रकटयति तद्वैभवपदं
गदद्विट्साम्राज्यं सततमभवत्तद्विलसितैः ।
स दक्षो वामाक्ष्याऽप्यधिकधनविद्यावितरणे
कटाक्षैः कामाक्षी कलयतु शुभं नः प्रतिदिनम् ॥
जनकश्शंकरस्साक्षात् जननी सर्वमङ्गला ।
रक्षणेऽवहितौ तौ मे को विचारः कुतो भयम् ॥

सर्वेश्वरपदान्तिके समर्पितम्.