पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
251
पञ्चमप्रश्नः

धःकोणौ, तदुपरिकोणमेकमाधारभूतं कामगिर्यात्मकं रुद्रात्मकशक्तिविशिष्टं कामेश्वरदेवतात्मकम् । एतादृशगुणविशिष्टमूर्ध्वकोणं अधःकोणद्वयस्य दक्षिणपार्श्वकोणस्य सूर्यचक्रात्मकजालंधरपीठे उड्डियाणदेवतात्मकतदितरवामकोणं सोमचकात्मकपूर्णगिरिगह्वरपीठं परब्रह्मात्मकशक्तिविशिष्टं त्रिकोणपद्मं प्रकृतिपुरुषयोरैक्यकर्मणा सर्वदा आनन्दानुभवसुखमनुभूयते । स्त्री प्रकृतिः । पुरुषस्तु ईश्वरः । तयोरैक्यसुखं सर्वदा अनुभूयते । अत एव सर्वरसाधारभूतमिति । सर्वजन्तूनां त्रिकोणपद्मं सर्वरसाश्रयं प्रजाजननहेतुभूतसुखैकाश्रयत्वात् । यन्नैवं तन्नैवं यथा घट इतीदं सर्वं रसाश्रयमिति सर्वप्रमाणसिद्धम् ॥

 प्रजाङ्कुराविर्भाववद्भूमिप्रदेशः रसादीनामाम्लरसवानिति व्यपदिश्यते । अत एव सर्वरसात्मकत्वं ब्रूमः । प्रजाजननहेतुभूतप्रदेशत्वात् पुंसामपि मेढ्रप्रदेशः त्रिकोणवद्भासते । बीजद्वयस्थितत्रिकोणद्वयविकारभूतबीजद्वयाधिष्ठितं तदुपरि मेढ्रप्रदेशमेककोणम् । तस्मात्सर्वपुंसां त्रिकोणपद्मं प्रतीतमिति यत्तदयुक्तम् । अण्डजातपुंवच्छरीराणां मेढ्रात्मकबीजद्वयपद्मस्य अभावात् तेषां त्रिकोणपद्मस्याभावादिति नाशङ्कनीयम् । बीजादुत्पन्नत्वस्य उभयोरपि समानत्वात् । ते अण्डजा इति सर्वशास्त्रसिद्धत्वात् । प्रत्यक्षेण त्रिकोणविकारमेढ्रबीजाभावेऽपि बीजजन्यं पिण्डमित्युभयोरपि समानम् । अत एव अण्डजानां अन्तस्स्थितपेशीति व्यपदिश्यते इति केचित् । अण्डजानां शरीराणां अण्डजत्वं समानमित्यर्थः ।

 ननु सर्वशरीरस्थितपद्मानां सर्ववर्णाधारत्वात्, तेषां प्रयोजनमपि वर्णज्ञापकत्वमात्रमेवेति प्रतिभाति । तत्र त्रिकोणपद्मस्य