पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
249
पञ्चमप्रश्नः

विधेयमिति चेष्टा स्वाचार्यः परेषाम् । रोगजनकसमूहाहेतुत्वात् । कटुरसवद्द्रव्यं पवनप्रकोपनिवर्तकमिति व्यपदेशमात्रेरितार्थः । तज्जनकीभूतरसविरसादनादजीर्णजातामपित्तविषक्रिमिनिवर्तनद्वारा कटुरसस्य हेतुत्वमित्यर्थः । कटुरसस्य क्रिमिदोषनिवर्तनमात्रे चरितार्थत्वात् । मांसधातुप्रकोपकारककफोद्रेककार्यं पवनोद्रेककार्यहेतुकं तत्कारणनिवर्तकमन्तरेण तत्कार्यनिवृत्तेरसंभवात् । तत्पवनप्रकोपकार्यनिवर्तकं कफप्रकोपनिवर्तकसामग्रीसंपादनमेव विधेयं भवति । तत्सामग्रीसम्पादनं कटुरसद्रव्यादनमेवेत्यर्थः ।

 ननु मधुररसगुणाधिक्यद्रव्यं अब्द्रव्यतादृशाधिक्यद्रव्यादनादजीर्णे जाते सति रसासृग्धातुविकारं करोति । तदादाननिदानभूताः रोगाः जलातिसारमहामलातिसारग्रहण्यतिसाररक्तपित्तरोगाश्च रक्तवायुश्च संभवन्ति । तन्निवर्तकं कषायरसवद्द्रव्यादनमिति मनसि निधायाह-- कषायेति ।

 कषायरसं विपाचयन् रसासृग्धातुस्थाने स्वतेजसा भाति ॥ ४९ ॥

 पाचकपित्तेन कषायरसद्रव्यादने पक्वाशयगते सति तत्पित्तकलायाः पाकः क्रियते । तत्पाकजन्यसंस्कारेण रसासृग्धातुविकारं हरति । तन्निवर्तककषायरसद्रव्यादानं तत्र हेतुरिति रसासृग्धातुविकारनिवर्तकसामग्रीरूपबलवत्तेजसा समर्थोऽस्मीति प्रतिभातीति अत्र स्वतेजसा भातीति प्रतिपादितम् ॥

 कषायरसविरसादनादजीर्णे जति सति तच्छुक्लधातुगतिविकारं कुर्वत् तच्छुक्लगतपवनप्रकोपे सति तद्धातुगतिविहित

 AYURVEDA
32