पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
आयुर्वेदसूत्रे

तल्लक्षणलक्षितकफप्रकोपस्य पृथिवीद्रव्यसंयोगजन्यत्वात् । तद्विरुद्धद्रव्यादनमपि कफप्रकोपहेतुकम् । कटुरसद्रव्यादनेनैव कफप्रकोपनिवृत्तिरित्याशयं मनसि निधायाह--ऊषणेति ।

 ऊषणरसं विपाचयन् मांसधातुस्थाने स्वतेजसा भाति ॥ ४८ ॥

 सर्वत्र सत्त्वात् पवनप्रकोपकारककफप्रकोपनिवर्तकत्वस्य बहुशो दृष्टत्वात् पवनप्रकोपकारकमिति वक्तुमशक्यत्वाच्च । तथा हि--सरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनप्रकोपस्य हतः(?) कफप्रकोपो भवति । कटुरसाधिकद्रव्ये पक्वाशयगते सति तत्कफप्रकोपं हरतीति वक्तव्यम् ॥

 आचार्यस्सर्वचेष्टासु लोक एव हि धीमताम् ।

 एष शिरस्तोदो यत्र प्रकाश्यते तत्र कटुरसवद्द्रव्यविलेपनं शिरस्तोदनिवर्तकं भवति । किंचानलमन्दादजीर्णे जाते सति कुक्षौ वेदना जायते । तत्र कटुरसद्रव्यादनं निवर्तकं भवति । शीतोदकस्नानेन रसाजीर्णे सति सर्वाङ्गेषु पवनप्रकोपो जायते । तत्र अनलसंयोगादिना स्वेदनं आमज्वरादीनां निवर्तकं भवति । तत्र पवनप्रकोपस्य निवृत्तिः यदा भवेत् तत्सिरारन्ध्रमार्गागतपवनगतितिरोधानं सर्वत्रापि मांसधातोः कफग्रस्तत्वात् कफप्रकोपे सति पवनगतितिरोधानं कुरुते । तत्र वेदनाऽपि जायते । तत्र पवनप्रकोपकार्यनिवर्तकद्रव्यं वा भेषजं तज्जनककफप्रकोपनिवर्तकद्रव्यं वा भेषजम् । तत्र पवनप्रकोपनिवर्तकरसवद्द्रव्यादनमन्तरेण तत्पवनप्रकोपनिवृत्तिं कर्तृमशक्यत्वात् । तस्मात्कटुरसवद्द्रव्यं पवनप्रकोपकार्यनिवर्तके