पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
आयुर्वेदसूत्रे

 लवणोषणजन्यास्थिधात्वाकारभूतषट्कोणचक्रं कुण्डलीप्रदेशादधस्स्थितत्वात् पृष्ठचक्रवत् तदूर्ध्वोदरवत् पृष्ठदेशवत् पाककर्मणि सहस्रसिराभिरभिवर्धते । तेषामपि श्वासोच्छासपवनगतिसंयोगद्वारा अभिवर्धितत्वेन श्वासोच्छासयोरेतत्पोषककर्महेतुकत्वप्रतिपादनात् पृष्ठोदरपद्मवदभिवर्धत इत्यर्थः ।

 अस्थिधात्वन्तर्भावितमज्जाधातोरमृतागमनसंसर्गप्रसंगाभावेन अमृतोपजीव्यत्वं नोपपद्यत इत्यस्वरसादाह--नाभेरिति ।

 नाभेरधस्स्थितं कुण्डल्यादिभूतं शतदळ[१]पद्मं पञ्चसहस्रसिरावृतं सरोरुहमजायत ॥ ४२ ॥

 कुण्डल्यधस्स्थितरसासृङ्मांसमेदोधातूनां श्वासोच्छासपवनयोः स्पर्शयोग्यत्वाभावात् उपजीव्योपजीवकसंबन्धस्यानवकाशात् तत्पोषककर्मणः आवश्यकत्वेन पञ्चसहस्त्रसिरावृतशतदळपद्मं अजायत तावद्धातुपद्मपोषणार्थम् । एतद्विना पोषकत्वाभावेन तदाधारभूतसरोरुहमजायतेत्यर्थः । मज्जाधात्वन्तर्भूतस्वादुरसोपजीव्यशुक्लधात्वभिवर्धनकार्यं, कथं संगच्छत इत्याह--जठरेति ।

 जठराग्नेरालवालकतया भाति ॥ ४३ ॥

 जठराग्नेराविर्भूतपाचकपित्तकलापक्वादिकस्य आधारभूतत्वेन जठराग्निरूपपित्तकलाप्रज्वलनार्थं आलवालाधारभावत्वेन ज्वलनक्रियायोग्यत्वात् शुक्लधातोरापादतलमस्तकपर्यन्तं सर्वधात्वाधारकतया आलवालकतया भासत एवेत्यर्थः ॥


  1. दशदल--B.