पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
आयुर्वेदसूत्रे

तिक्तरसः मेदोविकाराकृतिस्सन् परिणमति । ऊषणरसः मज्जाधात्वाकारत्वेन परिणमति । कषायरसः रसासृग्धात्वाकृतिस्सन् भासते । तस्मात्पृथक्तया अभिधेयत्वेऽपि आश्रयादिवत् रसादिव्यञ्जकं वक्तुं न शक्यते । बहिःप्रदेशस्थिताः शरीरान्तः प्रविष्टास्सन्तः तत्तत्सजातीयधातुषु विलीयन्ते तत्तद्रसाः । तत्तद्धातूनां पोषणं च कुर्वन्ति । संशयं विना शुद्धगुणविशिष्टबहुरसवद्द्रव्यं शरीरदार्ढ्यकरणं भवतीत्यर्थः ।

 ननु रसवद्द्रव्यादनेन प्रकुपितपवनद्रव्यस्य रसासृग्धातुशोषं कर्तुमिच्छतः पवनभूतस्य प्रकोपनिवर्तकं कषायरसवदेकं भवति । कषायरसस्य रसासृग्धातूनां पवनप्रकोपनिवर्तकत्वं वक्तुमयोग्यमिति पूर्वसूत्रव्याख्यानं न क्षोदक्षममित्यस्वरसादाह--सेति ।

 सानिलाननिलाधिकानिलरूक्षलघुभावितो रसासृग्गतः ॥ ३४ ॥

 अस्यार्थः द्रव्यसंयोगविशिष्टजन्यकषायत्वसजातीयरसा न धातुविकारकारकप्रतिबन्धका इति वक्तुं शक्यते, तत्सजातीयविरोधिप्रतिबन्धकद्रव्यत्वात् । तद्रसासृग्धातुप्रवर्तकोष्णस्वभावगुणवत्त्वं लघुत्वस्वभावगुणवत्त्वं भजत् रसासृग्धातुशोषणं करोति । अतः बहिःप्रदेशस्थितपवनद्रव्यादने तत्संजातविशिष्टरसगुणविशिष्टस्सन् धातुशोषणं करोति । तत्सर्वमेतद्वाक्येन प्रतीयते । न पूर्वसूत्रविरोधश्च । तत्र श्रुतिरेव प्रमाणम् ।

 षड्रसास्सप्तधातुजनकाः रसव्याप्तत्वात् । रसानां धातूनां च उपव्यञ्जकत्वभावसंबन्धात् । रसासृग्धातुजातरसप्रकारजत्वेन भेदस्याप्रतीयमानत्वात् । आम्लशरीरा एव धातव इत्येवं त