पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
233
पञ्चमप्रश्नः

त्वात् । तद्विरसानुसरितसंस्कारोद्बोधकसंसर्गसिराधिगतदोषगतिविकारकार्यकारकोपयोगिरसधातुत्वात् । अधौतधातुं संप्राप्य पवनविकारकारकगतिः तदन्यविकारकारकत्वात् श्वासं च मूर्छां च (करोति) । तदुभयोरपि रसधातुजत्वेन दृश्यत्वात् । एवं रसधातुं संशोष्य अन्यधातुशोषं कर्तुं स एव ज्वरः तद्धातुं संप्राप्योज्जृम्भते । भ्रमच्छर्दी भवतः । एवं मांसधातुं संप्राप्य हिक्कादिशोकौ भवतः । एवमेवान्यधातुं संप्राप्य भ्रमहिक्कारोगौ जायेते । स एव ज्वरः कासमन्वहं जनयन् वर्तते । अस्थि संप्राप्य शोफं करोति । स एव ज्वरः वातपित्तकफानुसरितस्सन्मज्जाधातुमवलम्ब्य विजृम्भते । तदा स दशविधरोगाकारो भवति । एवमन्यदोषजाश्चेति सूत्रव्याख्यानं कृतम् ।

 ननु रसविरसजन्यविरसाधिकविरुद्धरसदोषाः सर्वरोगहेतुकाः । अजीर्णगुणाविर्भावज्ञानाभावजन्यविरसजन्यदोषविकाराभावज्ञापकशुद्धरसज्ञानदोषाः विकाराभावकार्यकारकाः । एवं दोषाः सर्वरोगहेतुकाः ।

 एवं दोषाः दुष्टास्सन्तस्त्रयोऽपि विकारकारका भवेयुः दोषधात्वात्मशरीरिणः । सुकर्मपरिपाकवशात् दोषा अदुष्टास्सन्तः विकारप्रतिबन्धका भवेयुः । सर्वे रोगाः विरसजाता इति यत्प्रतिपादितं तन्न, क्षोदक्षममित्यस्वरसादाह--अदोषा इति ।

 अदोषास्सदोषास्समदोषास्सरुजा रुजः ॥ ३२ ॥

 प्राणापानव्यानोदानसमानाः पञ्च वायवः शरीरकार्योपकारकाः । शरीराधारकस्य अदोषत्वं कथं सम्यक्तया भासते ? पित्तस्यापि दोषत्वादेव सदोषपञ्चरूपोपपन्नं संगृह्णाति पचति, विदे

 AYURVEDA
30