पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
आयुर्वेदसूत्रे

वन्ति । तद्धातुक्षोभ एव प्राणघातं करोति । तस्माद्दोषाणां अविकारगतिज्ञानपर्यन्तं लङ्घनकरणं आवश्यकमिति ध्येयम् । तेन दोषप्रकोपनिवृत्तिर्भवतीत्यर्थः ।

 ननु विरुद्धरसवद्द्रव्यादनेन अजीर्णे जाते सति तदजीर्णजीर्णतापर्यन्तं लङ्घनकरणं विधिः दोषप्रकोपनिवृत्तिपर्यन्तं योग्यत्वात् अजार्णजन्यपवनस्य लङ्घनकरणेनाजीर्णनिवृत्तौ सत्यां पवनप्रकोपनिवृत्तेः दृष्टत्वात् । तत्र तैलादिकं निवर्तकं भवति । पित्तदोषप्रवर्तकरसद्रव्यादनादजीर्णे जाते सति तत्प्रकोपो भवति । लङ्घनकरणादेः पित्तनिवर्तकत्वात् क्वाथेन चूर्णेन वा तन्निवृत्तिः । एवं पचनविकारकारकद्रव्यादनेन अजीर्णे जाते सति कफविकारो जायते । कषायकल्कचूर्णादयस्तत्प्रतिकारका भवन्ति ।

 एवं तत्तद्रोगाणां बहूनि निवर्तकानि । दोषा अजीर्णेन प्रकुपितास्सन्तः यावत्कालं धातुक्षोभं कुर्वन्ति । तत्रायं लङ्घनकरणविधिः ।

 अजीर्णजन्यसंस्कारे धातुशोषैककार्ये विकारे दृष्टे सति तत्तज्ज्वरो जायते । तत्र आमदोषपचनरस्य नियामकत्वात् । तदजीर्णजन्यमन्तस्स्थितं सत् तद्विरससर्वरसान्तरं भजति । तत्संस्कारजन्यदोषः दोषान्तरं भजति । स दोषः धातुमार्गं गत्वा धातुक्षोभकार्यकरणं करोतीति यत्तस्य स्वहस्ततले विरसगन्धज्ञानभेदं यदादावुपलभते तदैव तत्तद्दोषाविर्भावकार्यस्य तत्तत्प्रागभावज्ञानाभावज्ञानविच्छेदनपर्यन्तं दोषप्रकोपजन्यरोगान्तरकार्यस्य हेतुभूतत्वात् तादृशज्वरस्य निदानं स्वहस्ततले तत्तद्गन्धज्ञानमेव नियामकं लभ्यते । तावत्पर्यन्तं लङ्घनकरणं भेषजं भवतीत्यर्थः ।