पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
221
पञ्चमप्रश्नः

भवति । यावद्धात्वधिरोहणपर्यन्तं लङ्घनकरणं भेषजं भवति । तदितरदोषाभावकार्यकरणं सुभेषजं भवतीत्यर्थः । स एव यावद्धातुगतसामयैकधातुगतामय इति ज्ञेयम् ।

 पक्वाशयेन सान्द्रसान्द्रतानलेन दोषविकारपाचनविधि प्रयतनं लङ्घनकरणमेव फलितार्थः ।

 ननु दोषप्रकोपाभावज्ञानं तत्तद्रोगकार्यहेतुभूतविरसादनविषयकज्ञानव्यतिरिक्तज्ञानजन्यज्ञानविषयकं, समर्थप्रवृत्तिजनकज्ञानविषयकत्वात् इत्यनुमानप्रयोगप्रकारेण रोगनिवृत्तिज्ञाने सति रोगाभावज्ञानं जातम् । तेन दोषप्रकोपनं विना तदभावज्ञानं कथं लभ्यत इत्याशयं मनसि निधाय विरुद्धेतिसूत्रस्य अस्वरसान्तरमाह--विरुद्धेति ।

 विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः ॥ २४ ॥

 अस्यार्थं व्याचष्टे--

 एकविरुद्धरसवद्द्रव्यादनजन्याजीर्णजन्यसंस्कारविशेषदोषधातुगतिः एकविरसद्रव्यादनजन्या सा गतिः विरसद्रव्यादनजन्याजीर्णजाता सती अनेकधातुसंचारकार्ये दृष्टे सति एकरसविरसद्रव्यादनजाताजीर्णवत्त्वं अनेकविरसादनजन्यत्वाभावेन अयं एकधातुविकारकरोग इति ज्ञानं कथं प्रवर्तते ? तस्माद्विरसादनजातरोगः यावद्धात्वारोहणात् अयं एकधातुगतिजातरोगः, अयं द्विदोषगतिजातरोगः इति ज्ञातुं निवर्तकाभावहेतुरोगाभावस्य तद्धेतुत्वज्ञापकत्वात् तदभावाद्यहेतुत्वात् अजीर्णजन्यरोगाभावकार्यं तद्धेतुनिवर्तकलङ्घनेनैव भाव्यं, इति अनुमानप्रमाणेन यत्र अजीर्णाभावः तत्र रोगाभाव इति तयोः व्याप्तौ सत्यां दोषपचनं निवर्तकं स्यादिति न वाच्यम् । दोषाः दुष्टास्सन्तः क्षुभिता भ