पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
217
पञ्चमप्रश्नः

द्रव्यावयवविकारहेतुकं अनिलद्रव्यादनगुणोपलम्भकतद्रसाधिक्यद्रव्यादनम् । आकाशद्रव्यावयवविकारहेतुकमेव । एवं विरुद्धविषयस्य प्रतियोगित्वेन हेतुत्वात् ।

 ननु तत्तद्द्रव्यगुणविशिष्टरसानुगुणयावद्द्रसवद्द्रव्यं यावद्रोगघातकमिति वर्तते । तथाहि--गगनभूताधिक्यज्ञापककषायरसानुगुणं सत् श्रोत्रविवरप्रदेशगतशब्दज्ञानप्रतिबन्धकश्रोत्राकाशविवरगतनाभसकषायरसाधिक्यद्रव्यं तन्निवर्तकं स्यात् । तस्मात्तद्गगनगुणाधिक्यमिति विज्ञेयम् । तथैव पवनगुणाधिक्यद्रव्यमपि विज्ञेयम् । पवनगुणाधिक्यद्रव्यज्ञापकमृदुस्थिरगुरुद्रवद्रव्यज्ञानं विरुद्धविषयकपवनभूतावयवाधिक्यज्ञापकं पाञ्चभौतिकविरुद्धविषयकद्रव्यमिति । एवमनिलाधिक्यगुणज्ञापकश्लक्ष्णसान्द्रतादिगुणाधिक्यतैजसगुणाभिवर्धकद्रव्यं अनलभूताधिक्यज्ञापकं पाञ्चभौतिकम् । एवं जलभूताधिक्यज्ञापकस्निग्धहैमगुणविशिष्टजलद्रव्यं विरुद्धविषयकम् ।

 एवं पृथिवीत्वज्ञापके गुरुत्वमन्दत्वे । आम्लरसद्रव्यत्वात् । पार्थिवद्रव्यावयवाधिक्यस्वादुरसज्ञापकं यत् तत्पञ्चभूतात्मकं विरुद्धविषयकम् । एतत्सर्वं विज्ञाय चिकित्सा कार्या ।

 ननु चिकित्साज्ञानं विरुद्धविषयकज्ञानपूर्वकम् । विरुद्धविषयकत्वं नाम विरुद्धद्रव्यज्ञानविषयकत्वम् । तत्र विरुद्धद्रव्यज्ञानस्य प्रतियोगित्वेन हेतुत्वात् । तथा सति शरीरस्य लक्षणं पञ्चभूतात्मकत्वम् । तल्लक्षणं तद्ज्ञानपूर्वकम् । तत्र श्रुतिः--

 "आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पाञ्चभौतिकं शरीरमिति ।"

 AYURVEDA
28