पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
216
आयुर्वेदसूत्रे

 इयं दोषविकारगतिः, इयं दोषविकाराभावगतिरिति विरुद्धाविरुद्धरसवद्द्रव्यादनजन्या इति प्रतिपादिताः, विरुद्धाविरुद्धरसवद्द्रव्यादनमात्रज्ञानहेतुकत्वात् इत्यनुमानरचनेन प्रतिपादिता सती वर्तते । बलवद्वह्न्यादिका ये एतत्प्रतिपादितार्थावच्छेदकत्वानुभवास्त एव शरीरं तथा रक्षन्ति तद्भक्षितान्नं तेनानलेन जीर्यते, एतत्प्रतिपादितार्थस्य संभावितत्वादित्यस्वरसादाह--विहितेति ।

 विहितपाक[१]हेतुरसा विपाकान्तस्स्थितविरुद्धरसा विषमदोषधातुमार्गगा[२] विषमदोषाः ॥ १८ ॥

 विरुद्धाविरुद्धरसद्रव्यादनज्ञानं विहितरसविपाकान्तस्स्थरसवद्द्रव्यादनज्ञानपूर्वकं तद्विकारकार्यहेतुभूतरसवद्द्रव्यादनज्ञानजन्यनिवर्तकज्ञानपूर्वकत्वात् । तेऽन्तस्स्थितरसादनविरुद्धरसाः विकारकारकाः तद्विकारग्रस्तदोषा विषमदोषाः, धातुमार्गं गच्छन्तीति धातुमार्गगाः । त एव विषमदोषा इत्यर्थः । तद्विरसवद्द्रव्यादनजन्यविकारज्ञानज्ञापकं स्वहस्ततलमेव घ्राणेन्द्रियविषयकज्ञानग्राहकं तत्प्रत्यहं तत्रैव यावद्द्रसाभावदर्शनं आरोग्यहेतुकमिति प्रत्यहं विज्ञाय तत्तु भूयोभूयो दर्शनेन स्वहस्ते वा अन्तस्स्थितामयानां हेतुभूतरसाः दक्षिणहस्ततले आविर्भवन्ति । आरोग्यज्ञानं यावद्विरसादनजन्यामयहेतुकरसविरसाभावज्ञानविषयकज्ञानं भवितुमर्हति । तथाहि--घ्राणेन्द्रियविषयहस्तगतरसज्ञानं विपाकान्तस्स्थितामयहेतुरसविरसाविर्भावज्ञानविषयकज्ञानहेतुकरसविरसादनजन्यामयज्ञानहेतूपलम्भकं तद्रसवद्द्रव्याधिक्यादनम् । अनिल

  1. वातौहितरसा;
  2. मार्गका--A. & B.