पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
215
पञ्चमप्रश्नः

म्भकज्ञानानुभवात्मकत्वं तत्तैजसावयवाधिक्यपञ्चभूतात्मकमिति ताद्दशगुणविशिष्टपञ्चभूतात्मकद्रव्याधिक्यादनं वह्निभूतावयवविकारहेतुकम् ।

 एवं सर्वद्रव्येषु योजनीयम् । तथाहि--पार्थिवद्रव्यावयवाधिक्यादनं पार्थिवद्रव्यावयवविकारहेतुकम् । जलाधिक्यगुणोपलम्भकरसाधिक्यद्रव्यादनं जलद्रव्यावयवविकारहेतुकम् । वह्निद्रव्यावयवविकारकारकं वह्न्याधिक्यगुणोपलम्भकरसाधिक्यद्रव्यादनम् ।

 इति यथायोगं यावद्रोगघातात्मकषड्रसद्रव्याणां नानारोगनिवर्तकत्वं प्रतिपादितम् । तच्चिन्त्यम्, तथाहि--

 एतत्प्रयोजनं दोषत्रयप्रकोपकारकत्वं दोषत्रयप्रकोपनिवर्तकत्वं च । देशदेहकालभेदेन तत्तद्दोषनिवर्तकमिति प्रतिपादितम् । तन्न क्षोदक्षममित्यस्वरसादाह-- स्वस्थेति ।

 स्वस्थास्वस्थास्सामजामयास्सदोषगा विदोषगाः[१] ॥ १७ ॥

 यावत्पार्थिवद्रव्यादनेन दोषाः स्वस्था भवेयुः, यावद्विरसद्रव्यादनेन अजीर्णे जाते सति अन्योन्यस्थानस्थितत्वात् अस्वस्था भवेयुश्च । निर्दिष्टकार्यव्यतिरिक्तकार्यकारकत्वं तेषामेवावच्छेदकम् । तत्तद्रव्यादनम् दोषाणां स्वस्थत्वकारकम् । विरुद्धगतिकार्यहेतुभूतद्रव्यादनजन्या ये त एव सामजामयाः । तेषां निवर्तकद्रव्यादनेन नीरोगत्वम् ।

 सदोषेति-- तत्र दोषाणां ये विकृतास्ते विकारग्रस्ताः । धातुशोषकशरीरमार्गं गच्छन्तीति ते दोषगाः तद्विकाराभावकार्यहेतुकरसद्रव्यादनेन विदोषगाः विकाररहिता भवन्तीत्यर्थः ।


  1. ते दोषगा इति पाठ इति भाति.