पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
214
आयुर्वेदसूत्रे

 कालपाकद्रव्यजरोगस्तत्सर्वरेचनगुणविशिष्टः । सा कला आमनिवर्तकान्तरगुणविशिष्टा । आमकारकद्रव्यं सकलामयहेतुकम् । एतद्गुणविशिष्टद्रव्यादनादामयाः प्रवर्धन्ते ।

 ननु वातपित्तकफदोषैरेव तद्रोगोत्पादकसामग्र्यां सत्यां तत्तद्रोगा आविर्भवन्तीत्युक्तम् । तच्चिन्त्यं, तथाहि--

 पञ्चभूतात्मकं शरीरमिति शरीरसंरक्षणं शरीरस्यैव सर्वरोगालयत्वाच्छरीरमेव यावदुद्भूतात्मकयावद्द्रव्यान्तर्भूतावयवाधिक्यहितकार्यजातगुणकारकं यावद्भूतावयवाभिवर्धकतत्सजातीयरसद्रव्यादनजन्यत्वादिति तत्तद्भूतनिष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुकत्वम् ।

 भूगुणौ गुरुमन्दौ । स्निग्धहिमावापः । श्लक्ष्णसान्द्रतराऽग्नेः । मृदुस्थिता गुरुमारुतः । सूक्ष्मविशदा वियतः । विरुद्धविषयकाः प्रतिकारकाः । देशदेहकालद्रव्यकर्मणां यथायोगो यावद्रोगघातकः ॥ १६ ॥

 भ्ववयवाधिक्यगुणोपलम्भकदेहगौरवगुणोपलब्धिः मन्दगुणश्च जायते । उभावपि भूगुणौ भवतः । तत् पार्थिवावयवाधिक्योपलम्भकपञ्चभूतात्मकं शरीरमिति तद्द्रव्यावयवाधिक्योपलम्भकपार्थिवद्रव्यावच्छेदकगन्धवत्त्वज्ञानानुभवात्मकत्वं तत्पार्थिवावयवाधिक्यपञ्चभूतात्मकमिति तादृशरसवद्द्रव्याधीनं तद्विकारविशिष्टद्रव्याधिक्यपञ्चभूतात्मकं शरीरमिति ।

 एवमनलद्रव्यावयवाधिक्योपलम्भकवह्नित्ववद्द्रव्याच्छेदकतैजसगुणवत्त्वं वह्निभूताधिक्यवह्निद्रव्याधिक्यज्ञापकतैजसरूपोपल