पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
212
आयुर्वेदसूत्रे

त्तेरपि निश्चितत्वात् । तत्सारजा रसाः सकलामयनिवर्तका इति सूत्रार्थस्सम्यक्प्रतिपादित इत्यर्थः ।

 ननु यावन्निवर्तकानेकयोग्यद्रव्याणि बहूनि सन्ति । तान्येव सन्तु भेषजानि । तत्तत्स्थितानेकरसवद्द्रव्यसमूहात्मकयावद्द्रव्यं महारसं, तादृशरसवद्द्रव्यं महारसवद्द्रव्यं भवति, अनेकरसवद्द्रव्यसमूहत्वात् बहूदीरितशब्दसमूहवत् इत्यनुमानेन बहूनां शब्दानामेकीकरणविधौ यथा महाघोषो जायते तद्वदेव बहुद्रव्यसजातीयमेलनविधौ बहुगुणं विधत्ते । क्वाथचूर्णतैलघृतरसायनादौ योग्यद्रव्याणां एकीकरणपाकजविधौ सकलामयनिवृत्तिरेतद्ज्ञानपूर्विका तत्तद्रोगनिवर्तकरसवद्द्रव्यज्ञानपूर्विका अनेकरसवद्विशिष्टद्रव्यसमूहत्वात् । अन्यथा तत्तद्भूरुहाणां प्रत्येकगुणप्रतिपादकशास्त्रस्य व्यर्थतापत्तेः । तथात्वे बहुद्रव्याणां एकरसवत्त्वासंभवात् रसानामेव गुणप्रधानत्वस्य सुप्रसिद्धत्वात् । तदेकप्रकारत्वेन तदवच्छेदकमेकमेवेति निश्चेतुमशक्यत्वादित्यस्वरसादाह--अदोषेति ।

 अदोष[१]धातुपोषकमनेक[२] सारकम् ॥ १४ ॥

 तत्तद्द्रव्यनिष्ठदोषनिवृत्त्यर्थं तत्तद्विधिचोदितसंस्कारवशात् अदोषद्रव्यं बहुसारवद्बहुरसगुणवत्संभवति यत्तदेव अदोषद्रव्यमिति तद्रसवत्त्वं तत्तद्धातुपोषकयावद्द्रव्यस्यावच्छेदकं भवति । तद्द्रव्यमेकमपि अनेकरसवत्सत् तत्तद्बहुगुणं प्रयच्छतीत्यर्थः ।

 ननु षड्रसवद्द्रव्याणां धातुपोषकत्वं यदा सम्भवति, तदा तेषां रसानां पवनादिप्रकोपकारकत्वस्य तथा तेषां धातूनामपि पोषकत्वस्य वक्तुमशक्यत्वात् ते रसास्तदा अप्रकोपकारका भ

  1. अदोषक A.
  2. पोषकमेकमनेक–-A & B.