पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
आयुर्वेदसूत्रे

 पित्तं हन्तीत्यस्य अनिलभूताधिक्यगगनभूतसंयोगजन्यत्वात् रसग्रहणीकलासन्धुक्षणपवनभूतगगनभूतसंयोगाज्जाततिक्तरसः उभयोरपि सर्वागमव्याप्यद्रव्यत्वात् पित्तप्रकोपनिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः ।

 ननु तस्य तिक्तरसस्य पवनप्रकोपकारकत्वं न संभवति स्वजन्यत्वात् । स्वजनकशरीरच्युतनिम्बकुष्ठभूनिम्बशृङ्गिशार्ककर्काटककुटजपटोलकुमारिभूतलततलपोटुकर्कन्धूदेवगुग्गुलाद्याः तिक्तरसपदार्थाः पवनप्रकोपकार्यनिवर्तकद्रव्यत्वात् भोगयोग्यद्रव्यत्वाच्च जठराग्निप्रज्वलनकार्याणां हेतुभूतद्रव्यत्वाच्च । सर्वे ते पवनप्रकोपनिवर्तका इति विज्ञातत्वात्कथं "मारुतं कुरुते" इत्युक्तमिति नाशङ्कनीयम् । तिक्तरसविरसवद्द्रव्यादनं पवनप्रकोपं कुरुत इति तात्पर्यात् । विरसद्रव्यादनं नाम विरुद्धरसद्रव्यादनम् । तदेव विषवद्द्रव्यादनं भवतीत्यर्थः ।

 अनलानिलभूतावयवाधिक्यजातकटुरसः कफप्रकोपनिवर्तक इत्याह--कट्विति ।

 [१] कटु कफं हन्ति । वातपित्तहेतुकम् ॥ ९ ॥

 कटुरसस्य कफनिवर्तकत्वं सुप्रसिद्धमेव । पित्तप्रकोपकारकत्वमपि सुप्रसिद्धमेव । कटुकाः शुद्धरसाः कफरोगनिवृत्तिकारकाः पित्तप्रकोपं च कुर्वते । इत्येतद्द्वयं सुप्रसिद्धम् । अनलानिलभूतजन्यकटुरसद्रव्यत्वेन कफप्रकोपं निवर्तयति, पित्तप्रकोपं च कुरुते । पवनप्रकोपनिवृत्तिं च कुरुते ।

 शुण्ठी रास्ना कर्णग्रन्थिः चव्यं मूलकं तमालपत्रं अर्धकं लशुनं हिञ्गु एतानि कटुरसद्रव्याणि भवन्ति । पवनप्रकोप

  1. एतत्सूत्रात्प्राक् 'हीनाधिकतिक्तरसः पित्तपवनं हन्ति । कफं कुरुते ।' इति A. B. कोशयोरधिकः पाठः.