पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
203
पञ्चमप्रश्नः

तुभूतम् । अतो दोषादेः ज्ञानमावश्यकमिति । दोषादिविज्ञानं विना तत्तदामयानां निर्णेतुमशक्यत्वात् । तथाहि-- स कीदृशो वायुः ? कुण्डलिनीस्थितश्वासोच्छवासरूपमुपपन्नस्सन् द्विविधप्रकारको भवति । स एव वायुः प्राणापानव्यानोदानसमानभेदः उपाधिभेदात्पञ्चविध उपहूयते । स एव आयुस्सर्वसिराभ्यन्तरगतस्सन् तत्तत्पद्माधिष्ठितसर्ववर्णानाहृत्य ताल्वोष्ठपुटव्यापाराघट्टनात् जातपवनस्य उपाधिभेदवशात् तत्तत्पवनगतिशक्त्या सर्ववर्णान् तत्तत्पद्ममवगम्य तत्तत्पद्मस्थितवर्णसमूहात्मकशब्दं श्रोत्रप्रदेशं गमयन् तत्तच्छब्दार्थविषयकज्ञानजन्यज्ञानं करोति । यत्र यत्र विरसद्रव्यादनादजीर्णे जाते सति अनिलात्मकश्वासोच्छवासगतिः सिरारन्ध्रमार्गमुपगतस्य पवनस्य विकारगतिं करोति । यत्र विकारगतिज्ञानं तत्र तदतिवेदनाविषयकम् । तत्तत्सिरागतपवनः तत्तत्पद्मपर्यन्तं विरुद्धगत्या वर्णग्राहकश्चेत् तद्वर्णं श्रोत्रविवरमुपेतं परग्राह्यं यदा भवति तदा विवर्णशब्दात्मकपदं श्रूयते । यावद्वर्णग्राहकपवनमभ्युपेत्य दोषमार्गमुपगम्य पवनश्चरति, तदा समस्तदोषा असमर्था भवन्ति । स एव वायुः विरसादनादजीर्णे जाते सति अल्पमल्पं चरति । सोऽसमग्रगतिरिति । तेषां पवनानामन्येषां संकरगतिर्यत्र दृश्यते स एव रोगो भवतीत्यर्थः ।

 ननु दोषत्रयनिरूपणे धातुपोषकप्रतिपादकशास्त्रं न प्रतीयते । ते दुष्टास्सन्तः धातुदूषका भवन्ति । ते तु अदुष्टाश्चेत् यथापूर्वमनतिक्रम्य स्थित्युपकारका भवन्ति । अतो दोषनिवारणेन किं फलं लभ्यत इत्यस्वरसादाह-- यत्रेति ।

 यत्रस्था ये रसास्तत्तदुद्भूतजातास्ते धातुपोषकाः ॥

 यत्र यावद्भूताधिक्यजातयावद्द्रव्यादनं तत्तद्भूताधीनतत्तन्निवर्तकधातुपोषकम् । यावदुद्भूतभूरुहरसाः यावदुद्भूतभूतजातधा