पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
आयुर्वेदसूत्रे

 ननु स्थावरजङ्गमशरीराः प्रकृतिपुरुषात्मकाः । अत एव सप्तधात्वावृतं शरीरमिति शरीरावच्छेदकं सप्तधात्वावृतत्वमिति । तद्बदेव षड्रसात्मकं शरीरमिति वक्तुं सुकरत्वात् स्थावरशरीराश्चतुर्धात्वात्मका इत्यस्य विनिगमकाभावात् शरीरत्वावच्छेदकावच्छिन्नस्य सर्वत्रापि समानत्वात् इत्याशयं मनसि निधायाह-- रेचकेति ।

 [१]रेचकपूरकधारकेभ्यो विकसति ॥ ६२ ॥

 रेचकपूरकपवनधारणात् तत्तद्वर्णाधिष्ठितपद्मानां निमीलनोमीलनेन तत्तद्वर्णबोधो जायते । तस्मादिदं शरीरं सप्तधात्वावृतं वर्णोच्चारणहेतुभूतद्रव्यत्वात् । ते तु न तथा । तावदयोग्यत्वात् चतुर्धात्वात्मकेन अर्धशरीररवत्त्वाच्च तत्कोरकपुष्पपत्रलतादयः निमीलनोन्मीलनं च कुर्वन्ति बहिः पवनसंपर्कवशात् । रेचकधारकात्वमात्रं व्यपदिशन्ति । तस्माच्चलनात्मकं कर्म कुर्वते ।

 ननु जङ्गमशरीरं शरीरान्तरजनकं स्थावरोत्पादकहेतुभूतद्रव्यत्वात् । एवं वृक्षः वृक्षान्तरजनकः स्थावरोत्पादकहेतुभूतात्मकत्वस्य च उभयोरपि समानत्वात् । अत एव स्थावरशरीराणामपि सप्तधात्वात्मकत्वं कथं निषिध्यत इत्यस्वरसादाह-- लिङ्गेति ।

 लिङ्गयोनिसंयोगाच्च प्रजया पशुभिः प्रजननं प्रजायते ॥ ६३ ॥

 लिङ्गस्य प्रजाजननहेतुभूतत्वात् स्थावराणां च प्रजाजननकाले वृक्षान्तरसंयोगकार्यस्य अदृष्टत्वात्, स्थावरशरीरत्वात् जङ्गमशरीरवत् स्थावराणां वक्तुमयोग्यत्वात् । अत एवोक्तं रसादिचतुर्धात्वावृतं शरीरमिति ।

  1. एतत्सूत्रात्प्राक् "सर्वकालद्रव्यगुणदोषकफपित्तविकारनाशकौ" इत्यधिकः पाठः A. B. कोशयोर्दृश्यते.