पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
195
चतुर्थप्रश्नः

 ननु एव लवणरसः अब्द्रव्यजन्यः अब्विकारद्रव्यत्वात्, लवणसमुद्रस्यैव सागरत्वात् । लवणं तज्जन्यं तत्पाकजन्यं सुमनोहरं सुगन्धविशिष्टाम्लरसवद्द्रव्यं पवनप्रकोपनिवर्तकं, अपक्वं तु न तथा । सुगन्धविशिष्टगुणाभावद्रव्यत्वात् लवणरसस्य शोषकद्रव्यस्य कथं पवननिवर्तकत्वं कफनिवर्तकद्रव्यत्वात् कटुरसवत्, लवणरसस्य कटुरसान्तःपातित्वात् । तत्कालविशिष्टलवणरसः पवनविकारो न भवति कटुरसस्य अनलद्रव्यगुणवत्त्वात् । स्वाद्वम्ललवणविशिष्टद्रव्याणि पवनप्रकोपनिवर्तकानि अब्द्रव्यनिष्ठगुणवद्द्रव्यत्वात् जम्बीरफलवत् । लवणरसः पवनप्रकोपनिवर्तकः अब्द्रव्यगुणवत्त्वात् । न सर्वजलं स्वादुरसवत्त्वादेव, स्वादुरसवद्द्रव्येभ्यः लवणद्रव्योत्पत्तेरभावात् । लवणसमुद्रस्य पार्थिवशरीरस्य सप्तधात्वात्मकत्वात् मच्छरीरवत् ॥

 ननु केचित्तरवोऽनेकसारवन्तो भवन्ति । एकजातीयतरुषु अनेकभूतावयवाधिक्यस्य वक्तव्यत्वात् । तद्यथा--शिग्रुजातीयतरुषु बीजसारवत्त्वं, पत्रसारवत्त्वं पुष्पसारवत्त्वं मूलत्वक्सारवत्त्वं मूलसारवत्त्वं, एतादृशसारवन्तः एते शिग्रुतरवः । यद्द्रव्याधिक्यापेक्षया एकस्य अनेकसारवत्त्वं भासत इत्याह--अनलेति ।

 अनलद्रव्यावयवाधिक्यजाताधिकरूपोपलम्भकयावद्रसवद्द्रव्यं तत्सारकम् ॥ ५९ ॥

 अनलभूतावयवाधिक्यद्रव्यत्वात् तद्वत्त्वं यत्र प्रतीयते तद्वस्तु अनलाधिक्यद्रव्यमिति । यत्रयत्राधिकरूपोपलम्भकयावद्योगद्रव्यं यावद्रूपवत्त्वेन नयनानन्दहेतुकं भवति तादृशचाक्षुषद्रव्यं तत्त्सारकम् । केचिन्मनुष्याणामयोग्यत्वेऽपि तद्योग्यादनवत्त्वात् जाता