पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
193
चतुर्थप्रश्नः

 ये ये शरीरास्समद्रव्यात्मकाः तत्र तत्र किंचिदुचितस्वादुरसः ॥ ५७ ॥

 पवनप्रकोपनिवर्तको भवतीति तात्पर्यम् । जलद्रव्यस्य अतिशीतलगुणवत्त्वेन पवननिवर्तकद्रव्यत्वं न भवति । तर्हि स्वाद्वम्ललवणरसाः पवननिवर्तका इति प्रतिपादितशास्त्रस्य का गतिरिति नाशङ्कनीयम् । घृतनिष्ठस्वादुरसः पवनप्रकोपनिवर्तकः । क्षीराणि च तथा । तैलगुणश्च । एरण्डतैलगुणश्च । जलद्रव्यावयाधिक्याभावजन्यशरीरजातस्वादुरसः पवनप्रकोपनिवर्तको भवतीति न तात्पर्यम् । इक्षुकाण्डनिष्ठस्वादुरसस्य अधिकजलावयवावृतशरीरत्वेन अतिशीतलद्रव्यत्वेन तन्निष्ठस्वादुरसस्य मधुरत्वात् तत्पवनप्रकोपनिवर्तकं न भवतीति तादृशस्वादुरसः पित्तप्रकोपनिवर्तक इति तात्पर्यम् ॥

 ननु यत्राब्द्रव्यावयवाधिक्यं तच्छरीरनिष्ठस्वादुरसस्य अतिमाधुर्यात् तत्राधिकस्वादुरसवद्द्रव्यस्य जलत्वस्य अवच्छेदकत्वात् तद्वच्छीतस्पर्शवत्त्वमपि तस्यावच्छेदकं भवति । यत्र शीतस्पर्शवत्त्वं तत्र जलत्वं, इति व्याप्तेर्गृहीतुं शक्यत्वात् । तच्छीतस्पर्शविशिष्टजलनिष्ठस्वादुरसः कथं पवनप्रकोपनिवर्तको भवेत् ? अनुभवविरोधात् । तथाहि--शीतस्पर्शविशिष्टस्वादुरसवद्रव्यं पवनप्रकोपकारकम् । तन्निष्ठपवनप्रकोपनिवृत्त्यर्थं अनलसंयोगजन्यकार्यसंस्कारविशिष्टजलं पवनप्रकोपनिवर्तकमिति तज्जलानलसंपर्कवशात् पवनजनकशीतलगुणं विहाय तस्य अनलसंयोगवशात् तज्जलं पवननिवर्तकं कथं भवेत् ? तस्माद्यत्रयत्राब्द्रव्यावयवाधिक्यं तत्रतत्र तथा अतिशीतलस्पर्शवत्त्व

 AYURVEDA
25