पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
192
आयुर्वेदसूत्रे

गन्धवत्त्वं एकरसवत्त्वं च भासते तत्र अनेकसारसत्वेऽपि तत्सर्वमेकदोषप्रकोपनिवर्तकं भवति । तत्तदङ्गेषु प्रतिभातस्यैकसारत्वात् तत्सार एव सर्वाङ्गव्यापक इति तदेकसारवद्द्रव्यमिति ज्ञातव्यमित्यर्थः ॥

 ननु अब्द्रव्याधिकद्रव्योपलब्धिर्यत्र तत्रैव मधुररसप्रतिस्वाद्यावयवप्रदेशेषु स्वादुरसः प्रतीयते । तत्राब्द्रव्यावयवाधिक्यमपि प्रतीयते । एकसारस्य अवयवविशेषस्थानसत्वाभावादित्याशयं मनसि निधायाह--अब्द्रव्येति ।

 अब्द्रव्यावयवाधिक्यजन्यस्वादुरसोपलब्धिर्यद्यत्तत्तत्सारकम् ॥ ५६ ॥

 अब्द्रव्यावयवाधिक्यं यत्र यत्र प्रतीयते तत्रैव स्वादुरसाधिकोपलब्धिरिति स्वादुरसवत्त्वं जलद्रव्यावच्छेदकमित्युक्तं, तच्चिन्त्यम् ।पञ्चभूतात्मकं शरीरमिति तन्मध्ये अब्द्रव्याधिक्यशरीरभूरुहकुमार्यादि । तत्र जलाधिक्यद्रव्यमुपलभ्यते । तस्यावच्छेदकत्वं तिक्तरसवत्त्वम् । तस्मात्तत्पवनप्रकोपकारि भवति । तिक्तरसवद्विषतरुफलसारं पवनप्रकोपनिवर्तकम् । यत्र जलवद्द्रव्याधिक्यं तत्पवनप्रकोपनिवर्तकं स्वादुरसम् । तस्यावच्छेदकं तिक्तरसम्, जलवद्द्रव्यस्यावच्छेदकत्वाभावात् । जलद्रव्यावच्छेदकस्वादुरसः पवनप्रकोपकारको भवति । जलवद्द्रव्याधिकरूपेक्षुकाण्डस्वादुरसोऽपि पवनप्रकोपनिवर्तको भवति । इति तात्पर्ये गुणाभावात्, किं तु पित्तप्रकोपनिवर्तकः । तस्माज्जलद्रव्यनिष्ठस्वादुरसः पवनप्रकोपनिवर्तको भवति इत्याशयवान् । समाधत्ते-- य इति ।